पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३१३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्रीसंग्रहणप्रकरणम् २४] मिताक्षरासहिता । २८५ द्विजातिभिग्रह्य धर्मो. यत्रोपरुध्यते' । तथा (मनुः ८॥३५१ )–‘नाततायि वधे दोषो हन्तुर्भवति कश्चन । प्रकाशं वाऽप्रकाशं वा मन्युस्तं मन्युमृच्छति ॥ इति शस्त्रग्रहणाभ्यनुज्ञानाच्च । तथा क्षत्रियवैश्ययोरन्योन्यस्यभिगमने यथाक्रम सहस्र-पञ्चशतपणात्मकौ दण्डौ वेदितव्यौ । तदाह मनुः (८॥३८२) -

  • वैश्यश्चेत्क्षत्रियां गुप्तां वैश्यां वा क्षत्रियो ब्रजेत् । यो ब्राह्मण्यामगुप्सायाँ

तावुभौ दण्डमर्हत ॥' इति ॥ २८६ ॥ पारदार्यप्रसङ्गात्कन्यायामपि दण्डमाह अलंकृतां हँरन्कन्यामुत्तमं ह्यन्यथाधमम् । दण्डं दद्यात्सवर्णासु प्रातिलोम्ये वधः स्मृतः ।। २८७ ।। विवाहाभिमुखीभूतामलंकृतां सचर्णा कन्यामपहरनुत्तमसाहसं दण्डनीयः । तद्नभिमुखीं सवर्णा हरन्प्रथमं साहसम् । उत्कृष्टवर्णजां कन्यामपहरतः पुनः क्षत्रियादेर्वध एव । दण्डविधानाचापहर्तृसकाशादाच्छिद्यान्यसै देयेति गम्यते ॥ २८७ ॥ आनुलोम्यापहरणे दण्डमाह सकामाखनुलोमासु न दोषस्त्वन्यथा दमः । यदि सानुरागां हीनवण् कन्यामपहरति तदा दोषाभावान्न दण्डः । अन्यथा त्वनिच्छन्तीमपहरतः प्रथमसाहसो दण्डः ॥ कन्यादूषणे दण्डमाह दूषणे तु करच्छेद उत्तमायां वधस्तथा ।। २८८ ।। अनुलोमास्वित्यनुवर्तते । यद्यकामाँ कन्यां बलात्कारेण नखक्षतादिना दूषयति तदा तस्य करश्छेत्तव्य । यदा पुनस्तामेवाङ्गुलिप्रक्षेपेण योनिक्षतं कुर्वन्दूष यति तदा मनूक्तषट्शतसहितोऽङ्गुलिच्छेदः । (मनुः ८॥३६७ )–“अभिषह्य तु यः कन्यां कुर्याद्दपेण मानव । तस्याशु कत्यें अङ्गुलया दण्डं चार्हति षट्श तम् ॥’ इति । यदा पुनः सानुरागां पूर्ववदूषयति तदाऽपि तेनैव विशेष उक्त ( मनुः ८॥३६८)-‘सकामां दूषयन्कन्यां नाडुलेिच्छेद्दुमर्हति द्विशतं तु दर्म दाप्यः प्रसङ्गविनिवृत्तये ।' इति । यदा तु कन्यैव कन्यां दूषयति विदग्धा वा तत्रापि विशेषस्तेनैवो क्तः । (मनुः ८॥३६९ )–‘कन्यैव कन्यां या कुर्यात् स्यास्तु द्विशतो दमः । या तु कन्यां प्रकुर्यात्खी सा सद्यो मौण्ड्यमर्हति । अङ्गुल्योरेव वा च्छेदं खरेणोद्वहनं तथा ।।' इति । कन्यां कुर्यादिति कन्यां योनिक्षतवतीं कुर्यादित्यर्थः । यदा पुनरुत्कृष्टजातीयाँ कन्यामविशेषात्सकामाम कामां वाऽभिगच्छति तदा हीनस्य क्षत्रियादेर्वध एव । (८॥३६६)-“उत्तम सेवमानस्तु जघन्यो वधमर्हति' इति मनुस्मरणात् ॥ यदा सवर्णा सकामाम १ हरेत्कन्याम् घ. २ दूषयंस्तुल्यो ख. ३ विशेषात्सानुरागामकामां ख