पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३१६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८८ याज्ञवल्क्य स्मृतः । [व्यवहाराध्यायः गृहीतवेतना वेश्या नेच्छन्ती द्विगुणं वहेत् । अगृहीते समं दाप्यः पुमानप्येवमेव हि ।। २९२ ।। यदा तु शुल्कं गृहीत्वा स्वस्थापि अर्थपतिं नेच्छति तदा द्विगुणं शुल्कं द्वद्यात् । तथा शुल्कं दत्वा स्वयमनेिच्छतः स्वस्थस्य पुंसः शुल्कहानिरेव ।-- 'शुल्कं गृहीत्वा पण्यस्त्री नेच्छन्ती द्विगुणं वहेत् । अनिच्छन्दत्तशुल्कोऽपि शुल्क हानिमवामुयात् । ॥' इति तेनैवोक्तम् । तथान्योऽपि विशेषस्तेनैव दर्शित ‘अप्रयच्छंस्तथा शुल्कमनुभूय पुमान्स्त्रियम् । आक्रमेण च संगच्छन् पाददन्त नखादिभिः ॥ अयोनौ वाऽभिगच्छेद्यो बहुभिर्वाऽपि वासयेत् । शुल्कमष्टगुणं दाप्यो विनयं तावदेव तु ॥ वेश्याप्रधाना यास्तत्र कामुकास्तद्वहोषिता तत्समुत्थेषु कार्येषु निर्णयं संशये विदु ॥’ इति ॥ २९२ ॥ अयोनौ गच्छतो योषां पुरुषं वाऽपि मेहतः । चतुर्विंशतिको दण्डस्तथा प्रब्रजितागमे ।। २९३ ।। किंच । यैस्तु स्वयोषां मुखादावभिगच्छति पुरुषं वाऽभिमुखो मेहति तथा प्रव्रजितां वा गच्छल्यसौ चतुर्विशतिपणान्दण्डनीयः ॥ २९३ ॥ अन्त्याभिगमने त्वङ्कयः कुबन्धेन प्रवासयेत् । शूद्रस्तथाऽन्त्य एव स्यादन्त्यस्यार्यागमे वधः ।। २९४ ॥ किंच अन्त्या चाण्डाली तद्वमने त्रैवर्णिकान्प्रायश्चित्तानभिमुखान् ‘सहस्त्रं त्वन्त्यजस्त्रियम्' इति मनुवचनात्पणसहस्त्रं दण्डयित्वा कुबन्धेन कुत्सितबन्धेन भगाकारेणाङ्कयित्वा स्वराष्ट्रान्निर्वासयेत् । प्रायश्चित्ताभिमुखस्य पुनर्दण्डनमेव । शूद्भः पुनश्चाण्डाल्यभिगमेऽन्त्य एव चाण्डाल एव भवति । अन्त्यजस्य पुनश्चा ण्डालादेरुत्कृष्टजातिख्यभिगमे वध एव ॥ २९४ ॥ इति स्त्रीसंग्रहणप्रकरणम् । अथ प्रकीर्णकप्रकरणम् २६ व्यवहारप्रकरणमध्ये स्त्रीपुंसयोगाख्यमप्यपरं विवादपदं मनुनारदाभ्यां त्रिवृतम् । तत्र नारदः-'विवाहादिविधिः स्त्रीणां यत्र पुंसां च कीर्यते । स्त्रीपुंसयोगसंज्ञ तद्विवादपदमुच्यते ॥’ इति ॥ मनुरप्याह (९॥२)–“अस्वतत्राः स्त्रियः कार्याः पुरुषैः खैर्दिवानिशम् । विषयेषु च सज्जन्त्यः संस्थाप्या ह्यात्मनो वशे ॥’ इत्यादि ॥ यद्यपि खीपुंसयोः परस्परमर्थिप्रत्यर्थितया नृपैसमक्ष व्यव हारो निषिद्धस्तथापि प्रत्यक्षेण कर्णपरम्परया वा विदिते तयोः परस्परातिचारे दुण्डादिना दम्पती निजधर्ममार्गे राज्ञा स्थापनीयौ । इतरथा दोषभाग्भवति च्यवहारप्रकरणे राजधर्ममध्येऽस्य स्त्रीपुंसधर्मजातस्योपदेशः । एतच विवाह प्रकरण एव सप्रपञ्चं प्रतिपादितमिति योगीश्वरेण न पुनरत्रोक्तम् ॥ २ स्वच्छया योषां घ ३ नृपसमीपं घ