पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३१७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रकीर्णकप्रकरणम्,२५]: मिताक्षरासहिता । सांप्रतं प्रकीर्णकाख्यं व्यवहारपदं प्रस्तूयते । तलक्षणं च कथितं नारदेन

  • कीर्णकेषु विज्ञेया व्यवहारा नृपाश्रयाः । राज्ञामाज्ञाप्रतीघातस्तत्कर्मकरणं

तथा ॥ पुरःप्रदानं संभेदैः प्रकृतीनां तथैव च । पाखण्डिनैगम श्रेणीगणधर्म विपर्ययाः ॥ पित्रापुत्रविवादश्च प्रायश्चित्तव्यसंक्रमः । प्रतिग्रहविलोपश्च कोपश्चा श्रमिणामपि । वर्णसंकरदोषश्च तदृत्तिनियमस्तथा । न दृष्टं यञ्च पूर्वेषु सर्व तत्स्या त्प्रकीर्णकम् ।।' इंति ॥ प्रकीर्णके विवादपदे ये विवादा राजाज्ञोलङ्कनतदा ज्ञाकरणादिविषयास्ते नृपसमवायिनः । नृप एव तत्र स्मृत्याचार वर्तमानानां प्रतिकूलतामास्थाय व्यवहारनिर्णयं कुर्यात् । एवं च वदता यो नृपाश्रयो व्यवहारस्तत्प्रकीर्णकमित्यर्थालुक्षितं भवति ॥ तत्रापराधविशेषेण दुण्डविशेषमाह ऊँनं वाऽभ्यधिकं वाऽपि लिखेद्यो राजशासनम् । पारदारिकचौरं वा मुञ्चतो दण्ड उत्तमः ।। २९५ ।। राजदत्तभूमेर्निबन्धस्य वा परिमाणान्यूनत्वमाधिक्यं वा प्रकाशयन् राजशा सनं योऽभिलिखति थश्च पारदारिकं चौरं वा गृहीत्वा राज्ञेऽनर्पयित्वा मुञ्चति तावुभावुत्तमसाहसं दण्डनीयौ ॥ २९५ ॥ प्रसङ्गगपाश्रयव्यतिरिक्तव्यवहारविषयमपि दण्डमाह अभक्ष्येण द्विजं दूष्यो दण्ड उत्तमसाहसम् । मध्यमं क्षत्रियं वैश्यं प्रथमं शूद्रमर्धिकम् ।। २९६ ।। मूत्रपुरीषादिना अभक्ष्येण भक्ष्यानर्हण ब्राह्मणं दूष्यान्नपानादिमिश्रणेन स्वरूपेण वा दूषयित्वा खादयित्वोत्तमसाहसं दण्ड्यो भवति । क्षत्रियं पुनरेवं दूषयित्वा मध्यमम् । वैश्यं दूषयित्वा प्रथमम् । शूद्रं दूषयित्वा प्रथमसाहसस्यार्ध दण्डयो भवतीति संबन्ध । लशुनाद्यभक्ष्यदूषणे तु दोषतारतम्याद्दण्डतारतम्यमूह नीयम् ॥ २९६ ॥ कूटस्वर्णव्यवहारी विमांसस्य च विक्रयी । त्र्यङ्गहीनस्तु कर्तव्यो दाप्यश्चोत्तमसाहसम् ।। २९७ ।। किंच । रसवेधाद्यापादितवर्णोत्कर्षेः कूटैः स्वणैव्यैवहारशीलो यः स्वर्णका रादिः । यश्च विमाँसस्य कुत्सितमाँसस्य श्चादिसंबद्धस्य विक्रयशीलः सौनि कादिः । चशब्दात्कूटरजतादेव्यवहारी च ते सर्वे प्रत्येकै नासाकर्णकरैस्त्रिभि रङ्गहींनाः कार्याः । चशब्दाञ्यङ्गच्छेदेन समुचितमुत्तमसाहसं दण्डं दाप्याः । यत्पुनर्मनुनोक्तम् (९-२९२)–“सर्वकण्टकपापिष्ठं हेमकारं तु पार्थिवः । प्रवर्त मानमन्याये छेदयेलवशः क्षुरैः ॥’ इति तदेतद्देवब्राह्मणराजस्वर्णविषयम् ॥२९७॥ १ णैके पुनर्शया ख. २भेदश्च घ. ३ न्यूनं वा घ. ४ द्रव्यरूपेण घ.५ शब्दादङ्गच्छेदेन ख