२९० याज्ञवल्क्यस्मृतिः । [ व्यवहाराध्याय विषयविशेषे दण्डाभावमाह चतुष्पादकृतो दोषो नापैहीति प्रजल्पतः । काष्ठलोष्टषुपाषाणबाहुयुग्यकृतस्तथा ॥ २९८ ।। चतुष्पादैगगजादिभिः कृतो यो दोषो मनुष्यमारणादिरूपोऽसौ गावाद्दुस्वा मिनो न भवत्यपसरेति प्रकर्षेणोचैभषमाणस्य । तथा लकुटलोष्ठसायकपाषाणो त्क्षेपणेन बाहुना युग्येन च युगं वहताश्चादिना कृतो यः पूर्वोक्तो दोषः सोऽपि काष्ठादीन्पास्यतो न भवत्यप्रसरेति प्रजल्पतः । काष्ठाद्युत्क्षेपणेन हिंसायां दोषा भावकथनं दण्डाभावप्रतिपादनार्थम् । प्रायश्चित्तं पुनरबुद्धिपूर्वकरणनिमित्तम स्त्येव । काष्ठादिग्रहणं च शक्तितोमरादेरुपलक्षणार्थम् ॥ २९८ ॥ छिन्ननखेन यानेन तथा भग्रयुगादिना । पश्चाचैवापसरता हिंसने स्वाम्यदोषभाक् ॥ २९ ॥ किंच । नसि भवा रजुर्नस्या छिन्ना शकटादियुक्तबलीवर्दनस्या रजुर्यस्मिन्याने तत् छिन्ननस्यं शकटादि तेन । तथा भझयुगेन आदिग्रहणाद्भझाक्षचक्रादिना च यानेन पश्चात्पृष्ठतोऽपसरता चशब्दात्तिर्यगपगच्छता प्रतिमुखं चागच्छता च मनुष्यादिहिंसने स्वामी प्राजको वा दोषभाङ् न भवति । अतत्प्रयत्रजनित त्वाद्धिंसनस्य । तथाच मनुः (८॥२९१।२९२)–‘छिन्ननास्ये भझयुगे तिर्यकू प्रतिमुखागते । अक्षभङ्गे च यानस्य चक्रभङ्गे तथैव च। ॥ छेदने चैव यत्राणां ोक्तरश्म्योस्तथैव च । अॅआक्रन्दे सत्यपैहीति न दण्डं मनुरब्रवीत् ॥’ इति । उपेक्षायां स्वामिनो दण्डमाह शक्तोऽप्यमोक्षयन्खामी दंष्ट्रिणां शृङ्गिणां तथा । प्रथमं साहसं दद्याद्वित्रुकुटे द्विगुणं तथा ।। ३०० ।। अप्रवीणप्राजकप्रेरितैर्दष्टिभिर्गजादिभिः शङ्गिभिर्गवादिभिर्वध्यमानं समर्थ ऽपि तत्स्वामी यद्यमोक्षयछुपेक्षते तदा अकुशलप्राजकनियोजननिमित्तं प्रथम साहसं दण्डं दद्यात् । यदा तु मारितोऽहमिति वेित्रुकुटेऽपि न मोक्षयति तदा द्विगुणम् । यदा पुनः प्रवीणमेव प्राजक प्रेरयति तदा प्राजक एव दण्डयो न स्वामी । यथाह मनुः (८॥२९४)–‘प्राजकश्चेद्भवेदासः प्राजको दण्डमर्हति इति ॥ प्राजको यन्ता । आप्तोऽभियुक्तः । प्राणिविशेषाञ्च दण्डविशेषः कल्प नीयः । यथाह मनुः (८॥२९६-९८)–“मनुष्यमारणे क्षिप्रं चौरवत्किल्बिषी भवेत् । प्राणभृत्सु महत्स्वर्ध गोगजोष्ट्रहयादिषु ॥ क्षुद्राणां च पशूनां तु हिंसायां द्विशतो दमः । पञ्चाशत्तु भवेद्दण्डः शुभेषु मृगपक्षिषु ॥ गर्दभाजावेि कात्वा तु दण्डः स्यात्पञ्चमाषकः । माषकस्तु भवेद्दण्ड श्वशूकरनिपातने ॥' इति ॥ १ तिर्यगपसरता घ.२ प्राजकः सारथिः. ३ आक्रन्दनेप्यपैहीति घ.४क्षुद्रकाणांपशूनांदुध
पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३१८
एतत् पृष्ठम् अपरिष्कृतम् अस्ति