प्रकीर्णकप्रकरणम् २५] मिताक्षरासहिता । २९१ जारं चौरेत्यभिवदन्दाप्यः पञ्चशतं दमम् । उपजीव्य धनं मुश्र्वस्तदेवाष्टगुणीकृतम् ।। ३०१ ॥ किंच । स्ववंशकलङ्कभयाजारं पारदारिकं चौरं निर्गच्छेत्यभिवदन् पञ्चशतं पणानां पञ्च शतानि यस्मिन्दमे स तथोक्तस्तं दमं दाप्य । यः पुनर्जारहस्ताद्धन मुपजीव्य उत्कोचरूपेण गृहीत्वा जारं भुञ्चत्यसौ यावदृहीतं तावदृष्टगुणीकृतं राज्ञोऽनिष्टप्रवक्तारं तस्यैवाक्रोशकारिणम् । तन्मन्त्रस्य च भेत्तारं छित्त्वा जिह्वां प्रवासयेत ।। ३०२ ।। किंच । राज्ञोऽनिष्टस्यानभिमतस्यामित्रैस्तोत्रादेः प्रकर्षेण भूयोभूयो वक्तारै तस्यैव राज्ञ आक्रोशकारिणं निन्दाकरणशीलं तदीथस्य च मत्रस्य स्वराष्ट्रविवृद्धि हेतोः परराष्ट्रापक्षयकरस्य वा भेत्तारै अमित्रकणेषु जपन्तं तस्य जिह्वामुत्कृत्य स्वराष्ट्रान्निष्कासयेत् । कोशापहरणादौ पुनर्वध एव । (मनुः ९॥२७५)- राज्ञः कोशापहर्तुश्च प्रतिकूलेषु च स्थितान् । घातयेद्विविधैर्दण्डैररीणां चोपै कारकान् ॥' इति मनुस्मरणात् । विविधैः सर्वस्वापहाराङ्गच्छेदवधरूपेरि त्यर्थः । सर्वस्वापहारेऽपि यद्यस्य जीवनोपकरणं तन्नापहर्तव्यम् चौर्योपकरणं विना । यथाह नारद् -‘आयुधान्यायुधीयानां बाह्यादीन्बाह्यजीविनाम् । वेश्याखीणामलंकारान्वाद्यतोद्यादि तद्विदाम् ॥ यच्च यस्योपकरणं येन जीवन्ति कारुकाः । सर्वस्वहरणेऽप्येतन्न राजा हर्तुमर्हति ॥' इति । ब्राह्मणस्य पुनः ‘न शैरीरो ब्राह्मणे दण्डः’ इति निषेधाद्वधस्थाने शिरोमुण्डनादिकं कर्तव्यम्-‘ब्राह्म णस्य वधो मौण्ड्यं पुरान्निर्वासनाङ्कने । ललाटे चाभिशस्ताङ्कः प्रयाणे गर्दभेन तु ॥' इति मनुस्मरणात् ॥ ३०२ ॥ मृताङ्गलग्रविक्रेतुर्गुरोस्ताडयितुस्तथा । राजयानासनौरोढुर्दण्ड उत्तमसाहसः ।। ३०३ ।। किंच । मृतशरीरसंबन्धिनो वस्त्रपुष्पादेर्विक्रेतुः गुरोः पित्राचार्यादेस्ताडयितु तथा राजानुमतिं विना तद्यानं गजाश्वादि आसनं सिंहासनादि आरोहतश्चोत्तम साहसो दुण्ड ॥ ३०३ ॥ द्विनेत्रभेदिनो राजद्विष्टादेशकृतस्तथा । विप्रत्वेन च शूद्रस्य जीवतोऽष्टशतो दमः ।। ३०४ ।। किंच । यः पुनः क्रोधादिना परस्य नेत्रद्वयं भिनति । यश्च ज्योतिःशास्त्रवित् गुर्वादिहितेच्छुव्यतिरिक्तो राज्ञो द्विष्टमनिष्टं संवत्सरान्ते तव राज्यच्युतिर्भवि ष्यतीलेयवमादिरूपमादेशं करोति । तथा यः शूद्रो भोजनार्थ यज्ञोपवीतादीनि १ मित्रस्तवादेः ध. २ चोपजापकान् घ. ३ न शारीरो दण्डः ख . ४ हितेप्सु ख
पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३१९
एतत् पृष्ठम् अपरिष्कृतम् अस्ति