पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३२२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथाशोचवप्रकरणम् १ गहस्थाश्रमिणां नित्यनैमित्तिका धर्मा उक्ताः । अभिषेकादिगुणयुक्तस्य गृहस्थ विशेषस्य गुणधर्माश्च प्रदर्शिताः । अधुना तदधिकारसंकोचंहेतुभूताशौचप्रति पादनमुखेन तेषामपवादः प्रतिपाद्यते । आशौचशब्देन च कालस्रानाद्यपनोद्य पिण्डोदकदानादिविधेः अध्ययनादिपर्युदासस्य निमित्तभूतः पुरुषगत श्रवनातिशयः कथ्यते न पुनः कर्मानधिकारमात्रम् । “अशुद्धा बान्धवाः सर्वे इत्यादावशुद्धत्वाभिधानात् । अशुद्धशब्दस्य च वृद्धव्यवहारेऽनाहितान्निदीक्षिता दावनधिकारिमात्रे प्रयोगाभावात् वृद्धव्यवहारव्युत्पत्तिनिबन्धनत्वाच शब्दार्था वगतेः । किंच यद्याशौचिनां दानादिनिषेधदर्शनात्तदयोग्यत्वमशीचशब्दाभिधेयं कल्प्यते तर्हि उदकदानादिविधिदर्शनात् तद्योग्यत्वमप्याशैौचशब्दाभिधेयं स्यात् तत्रानेकार्थकल्पनादोषप्रसङ्ग इत्युपेक्षणीयोऽयं पक्षः ॥ तत्राशौचिभिः सपिण्डाधैर्यत्कर्तव्यं तत्तावदाह ऊनद्विवर्ष निखनेन्न कुर्यादुदकं ततः । आश्मशानादनुव्रज्य इतरो ज्ञातिभिर्तृतः ।। १ ।। यमसूत्तं तथा गाथा जपद्विलौकिकाग्निा । स दग्धव्य उपेतवेदाहिताश्यावृतार्थवत् ।। २ ।। ऊने अपरिपूर्णे द्वे वर्षे यस्यासावूनद्विवर्षस्तं प्रेतं निखनेत् भूमाववटं कृत्वा निदध्यान्न पुनर्दहेदित्यर्थः । नच सकृत्प्रसिंचन्त्युदकमित्यादिभिः प्रेतोद्देशेन विहि तमुदकदानाद्यौध्र्वदेहिकं कुर्यात् । अयं च गन्धमाल्यानुपलेपनादिभिरलंकृत्य शुचौ भूमौ श्मशानादन्यत्रास्थिनिचयरहितायां बहिग्रमान्निखननीय । यथाऽऽह मनुः (५॥६८-६९)-‘ऊनद्विवार्षिकं प्रेतं निदध्युबन्धवा बहिः । अलंकृत्य शुचौ भूमावस्थिसंचयनादृते ॥ नास्य कार्योऽन्निसंस्कारो नेपि कार्योदकक्रिया । अरण्ये काष्ठवत्यक्त्वा क्षिपेयुख्यहमेव तु ॥’ इति । अरण्ये काष्ठवत्यक्त्वेत्यस्यायमर्थः । यथारण्ये काष्ठं त्यक्त्वोदासीनास्तद्विषये भवन्ति तथोनद्विवार्षिकमपि खातायां भूमौ परित्यज्य तद्विषये श्राद्धाद्यौध्र्वदेहिकेषु उदासीनैर्भवितव्यमित्याचारादि प्रासश्राद्धाद्यभावोऽनेन दृष्टान्तेन सूच्यते । स च घृतेनाभ्यज्य यमगाथाः पैठद्भि र्निधातव्यः । ‘ऊनद्विवार्षिकं प्रेतं घृतात्तं निखनेदुवि । यमगाथा गायमानो यमसूक्तमनुस्मरन् ॥' इति यमस्मरणात् ॥ ततस्तस्मादूनद्विवार्षिकादितर पूर्णद्विवर्षे यो मृतोऽसौ श्मशानपर्यन्तं ज्ञातिभिः सपिण्डैः समानोदकैश्च ज्येष्ठ १ अत्राशुद्धशब्दस्य च व्यवहारेणाहितानि ख. २ नास्य ङ. ३ शवश्च ङ. ४ गायद्भिः कः