पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३२४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९६ याज्ञवल्क्यस्मृतिः । [ प्रायश्चित्ताध्यायः लाभे पर्णशरैः शौनकादिगृह्योक्तमार्गेण प्रतिकृतिं कृत्वा संस्कारः कार्यः । आशौचं चात्र दशाहादिकमेव । ‘आहितान्निश्चेत्प्रवसन्म्रियेत पुन:संस्कारं कृत्वा शव वदाशौचम्’ इति वलेिष्ठस्मरणात् ॥ अनाहिताग्निस्तु त्रिरात्रम्–“सुपिष्टैर्जल संमित्रैर्दग्धव्यश्च तथान्निना । असौ स्वर्गाय लोकाय स्वाहेत्युक्त्वा स बान्धवैः ॥ एवं पर्णशरं दग्ध्वा त्रिरात्रमशुचिर्भवेत् ॥’ इति वचनातू ॥ ततश्चायमर्थः--- 'नामकरणादर्वाङ्गिखननमेव न चोदकदानादि । तत ऊध्र्व यावत्रिवर्ष वैकल्पि कमश्युदकदानम् । ततः परं यावदुपनयनं तूष्णीमेवाश्युदकदानं नियतम् । वर्षत्रयात्प्रागपि कृतचूडस्य । उपनयनादूध्र्व पुनराहिताश्यावृता दाहं कृत्वा सर्वभौध्र्वदेहिकं कार्यम् । अयं तु विशेषः । उपनीतस्य लौकिकान्निना दाहः कार्यः । अनाहिताझेर्गुह्याग्निा दाहो यथासंभवं पात्रयोजनं च कार्यम् ॥ १ ॥ २ ॥ संस्कारानन्तरं किं कर्तव्यमित्यत आह सप्तमाद्दशमाद्वापि ज्ञातयोऽभ्युपयन्त्यपः । अपनः शोशुचद्घमनेन पितृदिघुखाः ।। ३ ।। ससमाद्दिवसादर्वाग्दृशमदिवसाद्वा ज्ञातयः समानगोत्राः सपिण्डाः समानो दकाश्च “अपनः शोशुचवदधम्’ इत्यनेन मत्रेण दक्षिणामुखाः अपः अभ्युपनयन्ति । अभ्युपगमनेन तत्प्रयोजनभूतोदकदानविशिष्टमभ्युपगमनं लक्ष्यते । “एवं माताम हाचार्येष्वि'त्यनन्तरमुदकदानस्यातिदेशदर्शनात् । एतञ्चायुग्मासु तिथिषु कार्यम् ।

  • प्रथमतृतीयपञ्चमसप्तसमनवमेघूदकक्रिया' इति गौतमस्मरणात् ॥ एतच्च स्नाना

नन्तरं कार्यम् । ‘शरीरमौ संयोज्यानवेक्षमाणा अपेोऽभ्युपयन्ति’ इति शाता तपस्मरणात् ॥ तथा प्रचेतसाप्यत्र विशेषो दर्शितः-प्रेतस्य बान्धवा यथावृद्धमुदकमवतीर्य नोद्धर्षयेयुरुदकान् ते प्रसिञ्चेयुरपसव्ययज्ञोपवीतवाससो दक्षिणाभिमुखा ब्राह्मणस्योदडूझुखाः प्रत्यङ्झुखाश्च राजन्यवैश्ययोः' इति स्मृत्यन्तरे तु यावन्त्याशौचदिनानि तावदुदकदानस्यावृत्तिरुक्ता । यथाह विष्णुः-'याव दाशौचं तावत्प्रेतस्योदकं पिण्डं च दद्युः' इति ॥ तथा च प्रचेतसाप्युक्तम् ‘दिने दिनेऽञ्जलीन्पूर्णान्प्रदद्यात्प्रेतकारणात् । तावदृद्धिः प्रकर्तव्या यावत्पिण्डः समाप्यते ।।' इति । प्रतिदिनमञ्जलीनाँ वृद्धिः काय यावद्दशमः पिण्डः समाप्यत इत्यर्थः । यद्यप्यनयोर्गुरुलघुकल्पयोरन्यतरानुष्ठानेनापि शाखार्थः सिद्धस्तथापि बहुलेशावहत्वेन गुरुतरकल्पे प्रवृत्त्यनुपपत्तेः प्रेतस्योपकारातिशयो भविष्यतीति कल्पनीयम् । अन्यथा गुरुतरकल्पायस्यानर्थक्यप्रसङ्गात् ॥ वसिष्ठनापि विशेषोऽभिहितः–‘सव्योत्तराभ्यां पाणिभ्यामुदकक्रियाँ कुर्वीरन्’ इति ॥ ३ ॥ वक्ष्यमाणसकृत्प्रसेकस्य नामगोत्रादिभिर्गुणैर्विशिष्टस्योदकदानस्याँसमानगोत्रेषु मातामहादिष्वतिदेशमाह एवं मातामहाचार्यप्रेतानामुदकक्रिया । कामोदकं सखेिंप्रत्ताखस्रीयश्वशुरत्विजाम् ।। ४ ।। १ प्राडुखाश्च ख. २ कल्पनीयस्याः क. ३ स्य समान ङ. ४ प्रत्तस्वस्रीय ङ