पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३२७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आशौचप्रकरणम् १ ] मिताक्षरासहिता । श्चित्तं कर्मव्यम् । ‘कृत्वानिमुदकं खानं स्पर्शनं वहनं कथाम् । रजुच्छेदाश्रुपातं च तसकृच्छेण शुद्धयति ।' इति स्मरणात् । एतच्च प्रत्येकं बुद्धिपूर्वके वेदितव्यम् । अबुद्धिपूर्वकरणे तु “एषामन्यतमं प्रेतं यो वहेत दहेत वा । कटोदकक्रियाँ कृत्वा कृच्छू सान्तपनं चरेत्। ॥’ इति संवतत्तं द्रष्टव्यम् । यः पुनः ‘तच्छवं केवलं स्पृष्टमश्रु वा पातितं यदि । पूर्वोक्तानामकारी चेवदेकरात्रमभोजनम् ।।' इति स्पशश्रुपातयोरुपवास उक्तः । असौ कृच्छेष्वशक्तस्य तथा “बन्धनच्छेदने दहने वा मासं भेक्षाहारस्त्रिषवणं च' इति सुमन्तुना भैक्षाशित्वमुत्तं तदप्यशक्तस्येव । एवमन्यान्यपि तद्विषयाणि स्मृतिवाक्यानि व्यवस्थापनीयानि । अयं च दाहादि प्रतिषेधो नित्यकर्मानुष्ठानासमर्थजीर्णवानप्रस्थादिव्यतिरिक्तविषयः तेषामभ्यनुज्ञा दर्शनात् । “वृद्धः शौचवस्मृतेर्लप्तः प्रत्याख्यातभिषविक्रयः । आत्मानं घातयेद्यस्तु भृग्वयनशनाम्बुभिः ॥ तस्य त्रिरात्रमाशौचं द्वितीये त्वस्थिसंचयः । तृतीये तूदकं २९९ १ पूर्वेव वेदितव्यम् ख एवं येन येनोपाधेिना आत्महननं शास्रतोऽभ्यनुज्ञायते तत्तद्यतिरिक्तमार्गेणा त्महनने श्राद्धाद्यौध्र्वदेहिकेषु निषिद्धेषु किं पुनस्तेषां कार्यमित्यपेक्षायां वृद्धया ज्ञवल्क्यछागलेयाभ्यामुक्तम्—‘नारायणबलिः काय लोकगहभयान्नरैः । तथा तेषां भवेच्छौचं नान्यथेत्यब्रवीद्यमः । तस्मात्तभ्योऽपि दातव्यमन्नमेव सदक्षिणम् ॥’ इति । व्यासेनाप्युक्तम्--“नारायणं समुद्दिश्य शिवं वा यत्प्रदीयते । तस्य शुद्धिकरं कर्म तद्भवेत्रैतदन्यथा ।।' इति । एवं नारायणबलेि प्रेतस्य शुद्धयापादनद्वारेण श्राद्धादिसंप्रदानत्वे योग्यतां जनयतीति औध्र्वदेहिकमपि सर्व कार्यमेव । अतएव षटत्रिंशान्मतेऽपि औध्र्वदेहिकस्याभ्यनुज्ञा दृश्यते गोब्राह्मणहतानां च पतितानां तथैव च । ऊध्र्व संवत्सरात्कुर्यात्सर्वमेवौध्र्वदेहि कम् ।।' इति । एवं संवत्सरादूध्र्वमेव नारायणबलिं कृत्वौध्र्वदेहिकं कार्यम् । नारायणबलिश्चत्थं कार्यः । कस्याँचिच्छुझैकादश्यां विष्णु चैवस्वतं यमं च यथावदभ्यच्र्य तत्समीपे मधुघृतपुतांतिलमिश्रान्दश पिण्डान्विष्णुरूपिणं प्रेत मनुस्मरन् प्रेतनामगोत्रे-उचायै दक्षिणाग्रेषु दभेषु दक्षिणाभिमुखो दत्त्वा गन्धा दिभिरभ्यच्र्य पिण्डप्रवाहणान्तं कृत्वा नद्यां क्षिपेत् न पत्यादिभ्यो दद्यात् । ततस्तस्यामेव रात्र्यामयुग्मान्ब्राह्मणानामन्योपोषितः श्वोभूते मध्याहे विष्ण्वारा धनं कृत्वा एकोद्दिष्टविधिना ब्राह्मणपादप्रक्षालनादितृसिप्रश्वान्तं कृत्वा पिण्डपितृ यज्ञावृतोछेखनाद्यवनेजनान्तं तूष्णीं कृत्वा विष्णवे ब्रह्मणे शिवाय यमाय च परिवारसहिताय चतुरः पिण्डान्दृत्वा नामगोत्रसहितं प्रेतं संस्मृत्य विष्णोनर्नाम संकीर्य पञ्चमं पिण्डं दद्यात् । ततो विप्रानाचान्तान्दक्षिणाभिस्तोषयित्वा तन्मध्ये चैकं गुणवत्तमं प्रेतबुद्धया संस्मरन् गोभूहिरण्यादिभिरतिशयेन संतोष्य तत पवित्रपाणिभिर्विप्रैः प्रेताय तिलादिसहितमुदकं दापयित्वा स्वजनैः सार्ध भुञ्जीत । सर्पहृते त्वयं विशेषः । संवत्सरं यावत्पुराणोक्तविधिना पञ्चम्यां नागपूजाँ