पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३३२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३० ४ याज्ञवल्क्यस्मृतेिः । [ प्रायश्चित्ताध्यायः जलमेकाहृमाकाशे स्थाप्यं क्षीरं च मृन्मये । किंच । जलं क्षीरं च मृन्मये पात्रद्वये पृथक् पृथगाकाशे शेिक्यादावेकाहं स्थापनीयम् । अत्र विशेषानुपादानात्प्रथमेऽहनि कार्यम् । तथा पारस्करवच नात् । ‘प्रेतात्र स्राहीत्युदकं स्थाप्यं पिब चेदमिति क्षीरम् ’ ॥ तथास्थिसंचयनं च प्रथमाद्विदिनेषु कार्यम् । तथाह संवर्तः–‘प्रथमेऽह्नि तृतीये वा सप्तमे नवमे तथा । अस्थिसंचयनं कार्य दिने तद्भोत्रजैः सह ॥’ इति । कचिद्वितीये त्वस्थिसंचय इत्युक्तम् । वैष्णवे तु चतुर्थे दिवसेऽस्थिसंचयनं कुर्यात् तेषां च गङ्गाम्भसि प्रक्षेप इति । अतोऽन्यतमसिन्दिने स्वगृह्योक्तविधिनास्थिसंचयनं कार्यम् । अङ्गिरसा चात्र विशेषो दर्शित –“अस्थिसंचयने यागो देवानां परि कीर्तितः । प्रेतीभूतं तमुद्दिश्य थः शुचिर्न करोति चेत् ।। देवतानां तु यजनं तं शपन्यथ देवताः ॥? देवताश्चात्र श्मशानवासिन्थः तत्र पूर्वदग्धाः ‘श्मशानवा सिनो देवाः शवानां परिकीर्तिताः' इति तेनैवोक्तम् । अतस्तान्देवानचिरमृतं च प्रेतमुद्दिश्य धूपदीपादिभिः पिण्डरूपेण चान्नेन तत्र पूजा कार्येत्युक्तं भवति ॥ तथा वपनं च दशमेऽहनि कार्यम् –“दशमेऽहनि संप्रासे स्नानं ग्रामाद्वहिर्भवेत् । तत्र त्याज्यानि वासांसि केशश्मश्रुनखानि च ॥' इति देवलस्मरणात् ॥ तथा स्मृत्यन्तरेऽपेि–“द्वितीयेऽहनि कर्तव्यं श्रुरकर्म प्रयखतः । तृतीये पञ्चमे वाऽपि ससमे वा प्रदानत ॥’ इति श्राद्धप्रदानाद्वौगनियम इति यावत् । वपनं च केषामित्याकाङ्कयामापस्तम्बेनोक्तम्--'अनुभाविनां च परिवापनम्’ इति। अयमर्थः-शावं दुःखमनुभवन्तीत्यनुभाविनः सपिण्डास्तेषां चाविशेषेण वपनमुताल्पवयसामेित्यपेक्षायामिदमेवोपतिष्ठते अनुभाविनां च परिवापनमिति । अनु पश्चाद्भवन्तीत्यनुभाविनोऽल्पवयसस्तेषां वपनमिति । अनुभाविनः पुत्रा इति केचिन्मन्यन्ते । 'गङ्गायां भास्करक्षेत्रे मातापित्रोर्गुरोर्मतौ । आधानकाले सोमे च वपनं सप्तसु स्मृतम् ॥' इति नियमदर्शनात् ॥ अशुचित्वेन सकलश्रौतस्मार्तकर्माधिकारनिवृत्तौ प्रसक्ताथाँ केपुििवद्भ्यनुज्ञा नार्थमाह वैतानौपासनाः कार्याः क्रियाश्च श्रुतिचोदनात् ।। १७ ।। तानोऽझीनां विस्तारस्तत्र भवा वैतानाः त्रेतान्निसाध्या अग्निहोत्रदर्शपूर्ण मासाद्याः क्रिया उच्यन्ते । प्रतिदिनमुपास्यत इत्युपासनो गृह्याग्निस्तत्र भवा ओौपा सनाः सायंप्रातहमक्रिया उच्यन्ते । ता वैतानौपासना वैदिक्यः क्रियाः कार्याः । कथं वैदिकत्वमिति चेत् श्रुतिचोदनात् । तथाहि-‘यावज्जीवमन्निहोत्रं जुहुयात्। इत्यादिश्रुतिभिरग्निहोत्रादीनां चोदना स्पष्टैव । तथा ‘अहरहः स्वाहा कुर्याद् न्नाभावे केनचिदाकाष्ठात्’ इति श्रुत्यौपासनहोमोऽपि चोद्येते । अत्र च श्रौतत्व विशेषणोपादानात्सार्तक्रियाणां दानादीनामननुष्ठानं गम्यते । अतएव वैयाघ्र १ भूतपूर्वदग्धाः ङ. २ गुरौ मृते क. ३ बध्यते कः