पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३३५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आशौचप्रकरणम् १ ] मिताक्षरासहिता । स्यात्षण्निशाः पुंसेि पञ्चमे । षष्ठे चतुरहाच्छुद्धिः ससमे त्वहरेव तु ॥' इति तद्विगीतत्वान्नादरणीयम् । यद्यप्यवेिगीतं तथापि मधुपकौङ्गपश्धालम्भनवलोक विद्विष्टत्वान्नानुष्ठेयम् । ‘अस्वग्र्यं लोकविद्विष्टं धम्र्यमप्याचरेन्न तु’ इति मनुस्मर णात् । नच सप्तमे प्रत्यासन्ने सपिण्ड एकाहो विप्रकृष्टाष्टमादिषु समानोदकेषु यहमिति युक्तम् । एवमविशेषेण सपिण्डानामाशौचे प्राशे कविन्नियमार्थमाह । ऊनद्विवर्षे संस्थिते उभयोरेव मातापित्रोर्दशरात्रमाशौचं न सर्वेषां सपिण्डा नाम् । तेषां तु वक्ष्यति ‘आदन्तजन्मनः सद्यः' इति । तथाच पैङ्गयः–‘गर्भस्थे प्रेते मातुर्दशाहं, जात उभयोः, कृते नान्नि सोदराणां च' इति । अथवा अर मर्थः-ऊनद्विवर्षे संस्थिते उभयोर्मातापित्रोरेव अस्पृश्यत्वलक्षणमाशौचं न सपि ण्डानाम् । तथा स्मृत्यन्तरे–‘ऊनद्विवर्षे प्रेते मातापित्रोरेव नेतरेषाम्’ इति अस्पृश्यत्वलक्षणमभिप्रेतम् । इतरस्य पुनः कर्मण्यनधिकारलक्षणस्य सपिण्डेष्वपि आदन्तजन्मनः सद्यः' इत्यादिभिर्विहितत्वात् । अत्र दृष्टान्तः-सूतकं मातुरेव हीति । यथा सूतकं जनननिमित्तमस्पृश्यत्वलक्षणमाशौर्च मातुरेव केवलं तथो नद्विवषपरमे मातापित्रोरेवास्पृश्यत्वमिति । ऊनद्विवर्षे सपिण्डानामस्पृश्यत्वं प्रतिषेधताऽन्यत्रास्पृश्यत्वमभ्यनुज्ञातं भवति । तथा च देवलः–‘स्वाशौचवका लाद्विज्ञेयं स्पर्शनं च त्रिभागतः । शूद्रविट्क्षत्रविप्राणां यथाशास्त्रं प्रचोदितम् ॥ इति । एतच्चानुपनीतप्रयाणनिमित्ते अतिक्रान्ताशौचे च त्रिरात्रादौ वेदितव्यम् । उपनीतविषयेऽपि तेनैवोक्तम्-‘दशाहादित्रिभागेन कृते संचयने क्रमात् । अङ्गस्पर्शनमिच्छन्ति वर्णानां तत्त्वदर्शिनः ॥ त्रिचतुःपञ्चदशभिः स्पृश्याः वर्णाः क्रमेण तु । भोज्यान्नो दशभिर्विप्रः शेषा द्वित्रिषडुत्तैर ॥’ इति । इद्यत्तैरर्दशभि व्युत्तरैद्वदशभिः षडुत्तरैः पञ्चदशभिरिति द्रष्टव्यम् ॥ १८ ॥ जनननिमित्तमस्पृश्यत्वलक्षणमाशौचमाह पित्रोस्तु सूतकं मातुस्तदसृग्दर्शनाद्भवम् । तदहर्न प्रदुष्येत पूर्वेषां जन्मकारणात् ।। १९ ।। रतकं जनननिमित्तमस्पृश्यत्वलक्षणमाशौचवं पित्रोर्मातापित्रोरेव न सर्वेषां "ानाम् । तच्चास्पृश्यत्वं मातुर्युवं दशाहपर्यन्तं स्थिरमित्यर्थः । कुतः । तद् त् । तस्याः संबन्धित्वेनासृजो दर्शनात् । अतएव वसिष्ठः–‘नाशौचं संसर्ग चेन्न गच्छति । रजस्तत्राशुचि ज्ञेयं तच्च पुंसि न विद्यते ॥ लक्पतुस्तु धुवं न भवति खानमात्रेणास्पृश्यत्वं निवर्तते । यथाऽऽह संवर्तः–‘जाते पुत्रे पितुः स्रानं सचैलं तु विधीयते । माता शुद्येद्दशाहेन स्रानात्तु स्पर्शनं पितुः ॥’ इति । माता शुद्येद्दशाहेनेत्येतच संव्यवहारयोग्यता मात्रम् । अदृष्टार्थेषु पुनः कर्मसु पैठीनसेिना विशेष उक्तः–*सूतिकाँ पुत्रवतीं विंशतिरात्रेण कर्माणि कारयेत् । मासेन स्त्रीजननीम्’ इति । अङ्गिरसा च सपिण्डानामस्पृश्यत्वाभावः स्पष्टीकृत सूतके सूतिकावज्र्य संस्पशों न १ इदं वचनं पूर्वमाचाराध्याये आलोचनीयम् या० २९