पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[ आचाराध्यायः
याज्ञवल्क्यस्मृतिः ।

चात्मनः प्रियं, वैकल्पिके विषये यथा ‘गर्भाष्टमेऽष्टमे वाब्दे’ इत्यादावात्मेच्छैव नियामिका । सम्यक्संकल्पाज्ज्ञातः कामः शास्त्रविरुद्धेो यथा 'मया भोजनव्य तिरेकेणोदकं न पातव्यम्’ इति । एते धर्मस्य मूलं प्रमाणम् । एतेषां विरोधे पूर्वपूर्वस्य बलीयस्त्वम् ॥ ७ ॥ देशादिकारकहेतूनामपवादमाह

इज्याचारदमाहिंसादानस्वाध्यायकर्मणाम् ।
अयं तु परमो धर्मो यद्योगेनात्मदर्शनम् ।। ८ ।।

इज्यादीनां कर्मणामयमेव परमो धर्मः यद्योगेन बाह्यचित्तवृत्तिनिरोधेना त्मनो दर्शनं याथातथ्यज्ञानम् । योगेनात्मज्ञाने देशादिनियमो नास्तीत्यर्थः । तदुक्तं ‘यत्रैकाग्रता तत्राविशेषात्’ इति पातञ्जले ॥ ८ ॥ कारकहेतुषु ज्ञापकहेतुषु वा संदेहे निर्णयहेतूनाह

चत्वारो वेदधर्मज्ञाः पर्षत्रैविद्यमेव वा ।
सा ब्रूते यं स धर्मः स्यादेको वाऽध्यात्मवित्तमः ।। ९ ।।

चत्वारो ब्राह्मणाः वेदैधर्मशास्त्रज्ञाः पर्षतू । तिस्रो विद्या अधीयन्त इति त्रैविद्यास्तेषां समूहस्रविद्यम् । धर्मशास्त्रज्ञत्वमत्राप्यनुवर्तते तद्वा पर्षत् । सा पूर्वोक्ता पर्षत् यं बूते स धर्मः । अध्यात्मज्ञानेषु निपुणतमो धर्मशास्रज्ञश्च एकोऽपि वा यं बूते सोऽपि धर्म एव ॥ ९ ॥ इत्युपोद्धातप्रकरणम् ।



अथ ब्रह्मचारेिप्रकरणम् २

एतैर्नवभिः श्लोकैः सकलशास्रोपोद्धातमुक्त्वा इदानीं वर्णादीनां धर्मान्वर्तुः प्रथम तावद्वणानाह

ब्रह्मक्षत्रियविट्शूद्रा वर्णास्त्वाद्यास्त्रयो द्विजाः।
निषेकाद्याः श्मशानान्तास्तेषां वै मन्त्रतः क्रियाः ।। १० ।।

ब्राह्मणक्षत्रियवैश्यशूद्राश्चत्वारो वर्णा वक्ष्यमाणलक्षणास्तेषामाद्यास्रयो ब्राह्मण क्षत्रियवैश्या द्विजाः द्विजायन्त इति द्विजाः तेषां द्विजानां वै एव न शूद्रस्य । निषेकाद्याः निषेको गभर्भाधानमाद्यो यासां तास्तथोक्ताः । श्मशानं पितृवनं तत्संबन्धि कर्म अन्ते यासां ताः क्रिया मत्रैर्भवन्ति ॥ १० ॥ इदानीं ताः क्रिया अनुक्रामति

गर्भाधानमृतौ पुंसः सवनं स्यन्दनात्परा ।
षष्ठेऽष्टमे वा सीमन्तो मायेते जातकर्म च ।। ११ ।।


१ इत्यत्रात्मेच्छैव, इत्यादिष्वात्मेच्छैव ख . २३शास्राविरुद्धः कामो यथा ख. ३वेदशास्र धर्मेशाः ख.४ वेदधर्मशास्त्रज्ञश्च ख. ५ सोऽपि धर्मः ख. ६ न शद्राणां क. ७ अन्तो यासां क.