याज्ञवल्क्यस्मृतिः। काचौलाद्र्वागेकाहः । प्रथमवर्षादूध्र्व त्रिवर्षपर्यन्तं कृतचूडस्य त्र्यहम् । इतरस्य त्वेकाहः । वर्षत्रयादूध्र्वमकृतचूडस्यापि त्र्यहम् । उपनयनादूर्दू सर्वेषां ब्राह्मणा दीनां दशरात्रादिकमिति ॥ २३ ॥ इदानीं स्त्रीषु च वयोवस्थाविशेषेणापवादमाह अहस्त्वदत्तकन्यासु बालेषु च विशोधनम् । अदत्ता अपरिणीता याः कन्यास्तासु कृतचूडासु वाग्दानात्प्रागहोरात्रं विशे षेण शुद्धिकारणम् । सपिण्डानां सापिण्डयं च कन्यानां त्रिपुरुषपर्यन्तमेव ।
- अप्रत्तानां तु स्त्रीणां त्रिपुरुषी विज्ञायते’ इति वसिष्ठस्मरणात् । बालेषु चानुत्प
न्नदन्तेषु अग्निसंस्कारे सत्येकाहो विशोधनम् । अकृतचूडायां तु कन्यायां सद्यः शौचम् । ‘अचूडायां तु कन्यायां सद्यः शौचं विधीयते’ इत्यापस्तम्बस्मरणात् । वाग्दानादूध्वं तु संस्कारात्प्राक्पतिपक्षे पितृपक्षे च ज्यहमेव । यथाऽऽह मनुः (५॥७२ ) स्त्रीणामसंस्कृतानां तु त्र्यहाच्छुद्धयन्ति बान्धवाः । यथोक्तनैव कल्पेन शुद्धयन्ति तु सनाभयः ॥’ इति । बान्धवाः पतिपक्ष्यात्रिरात्रेण शुद्धयन्ति । सनाभयस्तु पितृपक्ष्याः सपिण्डा यथोत्तेनैव कल्पेन निर्तृत्तचूडकानामित्यादिनो तेन त्रिरात्ररूपेण न पुनर्दशरात्ररूपेण । विवाहात्प्राक् तस्यायुक्तत्वात् । अतएव मरीचिः–“वारिपूर्व प्रदत्ता तु या नैव प्रतिपादिता । असंस्कृता तु सा ज्ञेया त्रिरात्रमुभयोः स्मृतम् ॥’ इति । उभयोः पतिपितृपक्षयोः । विवाहादूध्र्वे तु विष्णुना विशेषो दर्शितः-“संस्कृतासु स्त्रीषु नाशौचं पितृपक्षे, तत्प्रसवमरणे चेत्पितृगृहे स्यातां तदैकरात्रं त्रिरात्रं वा’ इति । तत्र प्रसवे एकाहः प्रयाणे त्रिरा ऋमिति व्यवस्था । इदं च वयोवस्थाशौचं सर्ववर्णसाधरणम् । क्षत्रस्य द्वाद् शाहानीति तद्वर्णविशेषोपादानेनाभिधानात् । अतएव मनुना अनुपात्तवर्ण विशेषाशौचविधेः साधारण्यप्रतिपादनार्थ चातुर्वेण्यधिकारे सत्यपि पुनः ‘चतुर्णा मपि वर्णानां यथावदनुपूर्वशः’ इत्युक्तम् । तथाङ्गिरसाप्युक्तम्-अविशेषेण वर्णानामर्वाक्संस्कारकर्मणः । त्रिरात्रातु भवेच्छुद्धिः “कन्यास्वह्वा विधीयते ॥’ इति व्याघ्रपादवचनं च तुल्यं वयसेि सर्वेषामिति प्राकूप्रदर्शितम् । अतो यथा
- पिण्डयज्ञावृता देय'मित्यादिः पिण्डोदकदानविधिः सर्ववर्णसाधारणः । यथा वा
समानोदकाशौचविधिः “अन्तरा जन्ममरणे’ इति संनिपाताशौचविधिश्च येद्वच
- गर्भस्रावे मासतुल्या निशा’ इति स्रावाशौचविधिः, ‘प्रोषिते कालशेषः स्यादृशेषे
त्र्यहमेव तु' इति विदेशस्थाशौचविधिश्च, यथा गुर्वाद्याशौचविधिः सर्ववर्ण साधारणः तथा वयोवस्थानिमित्तमप्याशौचं सर्ववर्णसाधारणमेव भवितुमर्हति । अतएव ‘क्षत्रे षङ्गिः कृते चौले वैश्ये नवभिरुच्यते । ऊध्र्व त्रिवर्षाच्छूद्रे तु द्वाद् शाहो विधीयते ॥’ तथा ‘यत्र त्रिरात्रं विप्राणामाशौचं संप्रदृश्यते । तत्र शूद्रे द्वादशाहः षण्नव क्षत्रवैश्ययोः । ’ इत्यादीनि ऋष्यश्श्रृङ्गादिवचनानि विगीतत्व [प्रायश्चित्ताध्यायः १ अकृतचूडायां. २ इति वसिष्ठस्मरणात् घ. ३ यदूध्र्व ख