पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३४७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आशौचप्रकरणम् १] मिताक्षरासहिता । ३१९ षेधः । इदं समानोत्कृष्टजातिविषयम् । यथाहू मनुः (५॥१०३)-‘अनुग येच्छया प्रेतं ज्ञातिमज्ञातिमेव च । स्रात्वा सचैवलः स्पृष्टाझिं घृतं प्राश्य विशु द्वयति ॥’ इति । ज्ञातयो मातृसपिण्डा । इतरेषां तु. विहितत्वान्न दोषः । निकृष्टजात्यनुगमने तु स्मृत्यन्तरोत्तं द्रष्टव्यम् । तत्र शूद्रानुगमने–‘प्रेतीभूतं तु यः शूद्रं ब्राह्मणो ज्ञानदुर्बल । अनुगच्छेन्नीयमानं स त्रिरात्रेण शुद्धयति ॥ त्रिरात्रे तु ततस्तीर्णे नदीं गत्वा समुद्रगाम् । प्राणायामशतं कृत्वा घृतं प्राश्य विशुद्धयति ॥'इति पराशरोक्तम् । क्षत्रियानुगमने त्वहोरात्रम् ।–“मानुषास्थि स्रिग्धं स्पृष्टा त्रिरात्रमाशौचं अस्रिग्धे त्वहोरात्रं शवानुगमने चैकम्’ इति वसिष्ठोक्तम् । वैश्यानुगमने पुनः पक्षिणी । तथा क्षत्रियस्यानन्तरवैश्यानुगमने अहोरात्रं एकान्तरशूद्रानुगमने पक्षिणी वैश्यस्य शूदानुगमने एकाहृ इत्यूहनी यम् ॥ तथा रोदनेऽपि पारस्करेणोक्तम्-'मृतस्य बान्धवैः सार्ध कृत्वा तु परिदेवनम् । वर्जयेत्तदहोरात्रं दानं श्राद्धादिकर्म च ॥' इति । तथालंकरणमपि न कार्यम् ।–‘कृच्छपादोसपिण्डस्य प्रेतालंकरणे कृते । अज्ञानादुपवास स्याद्दशक्तौ स्रानमिष्यते ॥’ इति शङ्गेन प्रायश्चित्तस्यास्रातत्वात् ॥ २६ ॥ सपिण्डाशौचे क्रचिद्दृपवादमाह महीपतीनां नाशौचं हतानां विद्युता तथा । गोब्राह्मणार्थ संग्रामे यस्य चेच्छति भूमिपः ॥ २७ ॥ यद्यपि महीशब्देन कृत्स्नं भूगोलकमभिधीयते तथाप्यत्र सकलायाः क्षिते रेकभर्तृकत्वानुपपत्तेः महीपतीनामिति बहुवचनानुरोधाच्च तदेकदेशभूतानि मण्डलानि लक्ष्यन्ते । तत्पालनाधिकृतानां क्षत्रियादीनामभिषिक्तानां नाशौचम् । तैराशौचवं न कार्यमित्यर्थः । तथा विद्युद्धतानां गोब्राह्मणरक्षणार्थ विपन्नानां च संबन्धिनो ये सपिण्डातैरप्याशौचं न कार्यम् । यस्य च मब्रिपुरोहितादे भूमिपोऽनन्यसाध्यमत्राभिचारादिकर्मसिद्धयर्थमाशौचाभावमिच्छति तेनापि न कार्यम् । अत्र च महीपतीनां यदसाधारणत्वेन विहितं प्रजापरिरक्षणं तद्येन दान मानसत्कारव्यवहारदर्शनादिना विना न संभवति तत्रैवाशौचाभावो न पुन पञ्चमहायज्ञादिष्वपि । तथाच मनुः (५॥९५ )–“राज्ञो महात्मिके स्थाने सद्य:शौचं विधीयते । प्रजानां परिरक्षार्थमासनं चात्र कारणम् ॥’ इति । गौतमेनाप्युक्तम्—‘राज्ञां च कार्याविघातार्थम्’ इति राजभृत्यादेरप्याशौचं न भवति । यथाह प्रचेताः–“कारवः शिल्पिनी वैद्य दासीदासास्तथैव च । राजानो राजभृत्याश्च सद्यःशौचाः प्रकीर्तिता ॥’ इति । कारवः सूपकारादयः । शिल्पिनश्चित्रकारचैलनिर्णेजकाद्य । अयं चाशौचवाभावः किंचिषय इत्यपेक्षायाँ कर्मनिमितैः शब्दैस्तत्तदसाधारणस्य कर्मणो बुद्धिस्थत्वात्तत्रैव द्रष्टव्य । अतएव विष्णुः–‘न राज्ञां राजकर्मणि न व्रतिनां व्रते न सत्रिणां सत्रे न कारूणां कारुकर्मणि’ इति प्रतिनियतविषयमेवाशौचाभावं दर्शयति । शातातपीये १ रक्षाथै शायनं ग. २ भृत्या वैद्या दासास्तथैव च. घ या० ३