पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३५२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

याज्ञवल्क्यस्मृतिः । । [ प्रायश्चित्ताध्यायः मार्जनात् ॥’ इति । तथाच शङ्खः–‘रथ्याकर्दमतोयेन ष्ठीवनाद्येन वा तथा । नाभेख्ध्वै नरः स्पृष्टः सद्यःस्लानेन शुद्धयति ॥’ इति । यमेनाप्यत्र विशेष उक्तः–“सकर्दमं तु वर्षासु प्रविश्य ग्रामसंकरम् । जङ्कयोर्मुत्तिकास्तिस्रः पादयो द्विगुणास्ततः ॥’ इति । ग्रामसंकरं प्रामसलिलप्रवाहप्रवेशं सकर्दमं प्रविश्येत्यर्थ । मारुतशोषिते तु कर्दमादौ न दोषः । ‘रथ्याकर्दमतोयानि स्पृष्टान्यन्त्यश्धवायसैः । मारुतेनैव शुद्धयन्ति पकेष्टकवितानि च ॥’ इति प्रागुक्तत्वात् । अस्थनि मनुना विशेष उक्तः ( ५॥८७)-“नारं स्पृष्टास्थि सस्त्रेहं स्नात्वा विप्रो विशुद्धयति । आचम्यैव तु निःस्नेहं गां स्पृष्ठा वीक्ष्य वा रविम् ॥' इति । इदं द्वैजातास्थि विषयम् । अन्यत्र वसिष्ठोक्तम्--'माजूषास्थि स्रिग्धं स्पृष्टा त्रिरात्रमाशौ चवमस्निग्धे त्वहोरात्रम्।' इति । अमानुषे तु विष्णूक्तम्-*भक्ष्यवज्र्य पञ्चनखशवं तदस्थि च सस्रहं स्पृष्टा स्नातः पूर्ववखं प्रक्षालितं बिभृयात्' इति । एवमन्येऽपि लानाह्वः स्मृत्यन्तरतोऽवबोद्धव्याः । एवं स्रानाहणाँ बहुत्वात्तदभिप्रायं तैरिति बहुवचनमविरुद्धम् । उदक्याशुचिभिः स्रायादित्येतैच दण्डाद्यचेतनव्यवधानस्पर्श चेदितव्यम् । चेतनव्यवधाने तु मानवमम् (मनुः ५॥८५)–‘दिवाकीर्तिमुदक्यां च पतितं सूतिकां तथा । शवं तत्स्पृष्टिनं चैव स्पृष्टा खानेन शुद्धयति ॥' इति । तृतीयस्य त्वाचमनमेव । ‘तत्स्पृष्टिनं स्पृशेद्यस्तु स्नानं तस्य विधीयते । ऊध्र्वमा चमनं प्रोक्तं द्रव्याणां प्रोक्षणं तथा ॥’ इति संवर्तस्मरणात् । एतचाबुद्धिपूर्वकवेि षयम् । मतिपूर्वे तु तृतीयस्यापि स्नानमेव । यथाह गौतम –“पतितचण्डाल सूतिकोद्दक्याशवस्पृष्टितत्स्पृष्टयुपस्पर्शने सचेलमुदकोपस्पर्शनाच्छुद्धयेत्' । इति । चतुर्थस्य त्वाचमनम् *उपस्पृश्याशुचिस्पृष्टं तृतीयं वापि मानवः । हस्तौ पादौ च तोयेन प्रक्षाल्याचम्य शुद्धयति ॥' इति देवलस्मरणात् । अँशुचीनां पुनरुदक्या दिस्पर्श देवलेन विशेष उक्त –“श्वपाकं पतितं व्यङ्गमुन्मत्तं शैवहारकम् । सूतिकां साविकां नारीं रजसा च परिलुताम् ॥ श्धकुकुटवराहश्च ग्राम्यान्संस्पृश्य मानवः । सचेलः सशिरः स्रात्वा तदानीमेव शुद्धयति ॥’ इति । “अशुद्धान्स्व यमप्येतानशुद्धस्तु यदि स्पृशेत् । विशुद्धयत्युपवासेन तधा कृच्छेण वा पुनः ॥ इति । सावेिका प्रसवस्य कारयित्री । कृच्छूः श्वपाकादिविषयः श्वादिषु तूपवास अधुना कालशुद्धौ दृष्टान्तत्वेन द्रव्यशुद्धिप्रकरणोक्तांस्तथैवान्न प्रकरणे वक्ष्य माणांश्च शुद्धिहेतूननुक्रामति कालोऽग्निः कर्म मृद्वायुर्मनो ज्ञानं तपोजलम् । पश्चात्तापो निराहारः सर्वेऽमी शुद्धिहेतवः ।। ३१ ।। यथायादयोऽमी सर्वे स्वविषये शुद्धिहेतवस्तथा कालोऽपि दशरात्रादिकः । शास्रगम्यत्वाच्छुद्धिहेतुत्वस्य । अझिस्तावच्छुद्धिहेतुः । यथाभ्यधायेि ‘पुनःपाकान्म १ चाण्डालाद्यचेतन ख. २ तमेव तु स्पृशेत् ख. ३ अशुचेिनां पुनः ख. ४ शवदाहृकं ङ