पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३५५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपद्धर्मप्रकरणम् २] मेिताक्षरासहिता । वैश्यवृत्यापि जीवतो ब्राह्मणस्य यदपणनीयं तदाह फलोपलक्षौमसोममनुष्यापूपवीरुध । तिलौदनरसक्षारान्दधि क्षीरं घृतं जलम् ॥ ३६ ॥ शस्त्रासवमधूच्छिष्टं मधु लाक्षा च बर्हिषः । मृचर्मपुष्पकुंतपकेशतक्रविषक्षितिः ।। ३७ ।। कौशेयनीललवणमांसेकशफसीसकान् । शाकाद्रौषधिपिण्याकपशुगन्धांस्तथैव च ।। ३८ ।। वैश्यवृत्यापि जीवन्नो विक्रीणीत कदाचन । ३२७ नो विक्रीणीतेति प्रत्येकमभिसंबद्धच्यते । फलानि कदलीफलादीनि बदरेङ्गुदव्य तिरिक्तानि । यथाह नारद –‘स्वयंशीर्णानि पर्णानि फलानां, बदरेडुदे । रजुः कापसिकं सूत्रं तचेदविकृतं भवेत् ॥” इति उपैलं मणिमाणिक्याद्यश्ममा त्रम् । क्षौममतसीसूत्रमयं वस्रम् । क्षौमग्रहणं तान्तवादेरुपलक्षणम् । यथाह मनुः ( १०॥८७)-‘सर्वे च तान्तवं रक्त शाणक्षौमाविकानि च । अपि चेत्स्युः रक्तानि फलमूले तथैौषधी ॥' इति । सोमो लताविशेषः । मनुष्यपदेनाविशे षात्स्त्रीपुंनपुंसकानां ग्रहणम् । अपूपं मण्डकाद्वेि भक्ष्यमात्रम् । वीरुधो वेत्रामृता दिलताः । तिलाः प्रसिद्धाः । ओदनग्रहणं भोज्यंमात्रोपलक्षणम् । रसागुडेक्षुरस शर्करादयः । तथाच मनुः (१०॥८८ )-क्षीरं क्षौद्रं दधि घृतं तैलं मधु गुडं कुशान्’ इति क्षारा यवक्षाराद्यः । दधिक्षीरयोर्महणं मस्तुपिण्डकिलाटकूर्चिका दीनां तद्विकाराणामुपलक्षणम् । ‘क्षीरं सविकारम्’ इति गौतमस्मरणात् । घृतग्रहणं तैलादिखेहमात्रोपलक्षणम् । जलं प्रसिद्धम् । शस्त्रं खङ्गादि । आसव ग्रहणं मद्यमात्रोपलक्षणम् । मधूच्छिष्टं सिक्थकम् । मधु क्षौद्रम् । लाक्षा जतु । बर्हिषः कुशाः । मृत् प्रसिद्धा । चर्माजिनम् । पुष्पं प्रसिद्धम् । आजलोमकृतः कम्बलः कुतपः । केशाश्वमर्यादिसंबद्धाः । तत्रमुदश्वित् । वेिषंइङ्गयादि । क्षितिभूमिः । ‘नित्यं, भूमेित्रीहियवाजाव्यश्धर्षभधेन्वनडुहृचैके’ इति सुर्मन्तुमर णात् । कौशेयं कोशप्रभवं वसनम् । नीलं दीलीरसम् । लवणग्रहणेनैव बिडसौ वर्चलसैन्धवसामुद्रसोर्मककृत्रिमाण्यविशेषेण गृह्यन्ते । मांसं प्रसिद्धम् । एकशफा हयादयः । सीसग्रहणं लोहमात्रोपलक्षणम् । शाकं सर्वमविशेषात् । ओषधय फलपाकान्ताः । आद्वैषधय इति विशेषोपादानाच्छुष्केषु न दोषः । पिण्याकः प्रसिद्धः । पशव आरण्याः । ( १०॥८९)-‘आरण्यांश्च पशून्सर्वान्दैष्ट्रिशश्च वयांसि च' इति मनुस्मरणात् । गन्धाश्चन्दनागुरुप्रभृतयः । सर्वानेतान्वैश्ये वृत्त्या जीवन्ब्राह्मणः कदाचेिदपि न विक्रीणीत । क्षत्रियादेस्तु न दोषः । अतएंव १कुतुपकेशख. २ उपलं माणिक्यादिख. ३ अजोर्णलोमकृत ङ. ४ गौतमस्मरणात् क.