यतिधर्मप्रकरणम् ४ ] मिताक्षरासहिता । अथ यतिधर्मप्रकरणम् ४ वैखानैसधर्माननुक्रम्य क्रमप्रासान्परित्राजकधर्मान्सांप्रतं प्रस्तौति वनादृहाद्वा कृत्वेटिं सार्ववेदसदक्षिणाम् । प्राजापत्यां तदन्ते तानग्रीनारोप्य चात्मनि ॥ ५६ ॥ अधीतवेदो जपकृत्पुत्रवानन्नदोऽग्रिमान् । शक्तया च यज्ञकृन्मोक्षे मनः कुर्यात्तु नान्यथा ।। ५७ ।। यावता कालेन तीव्रतपःशोषितवपुषो विषयकषायपरिपाको भवति पुनश्च मदोद्भवाशङ्का नोद्भाव्यते तावत्कालं वनवासं कृत्वा तत्समनन्तरं मोक्षे मनः कुर्यात् । वनगृहशब्दाभ्यां तत्संबन्ध्याश्रमो लक्ष्यते । मोक्षशब्देन च मोझैकफ लकश्चतुर्थाश्रमः ॥ अथवा गृहाद्भार्हस्थ्यादनन्तरं मोक्षे मनः कुर्यात् । अनेन चव पूर्वोक्तश्चतुराश्रमसमुचयपक्षः पाक्षिक इति द्योतयति । तथाच विकल्पो जावा लश्रुतौ श्रूयते—‘ब्रह्मचर्य परिसमाप्य गृही भवेत् गृही भूत्वा वनी भवेत् वनी भूत्वा प्रव्रजेत् । यदि वेतरथा ब्रह्मचर्यादेव प्रव्रजेत् गृहाद्वा वनाद्वा ' इति । तथा गार्हस्थ्योत्तराश्रमबाधश्च गौतमेन दर्शित –‘ऐकाश्रम्यं त्वाचार्या प्रत्यक्षविधानाद्भार्हस्थ्यस्य’ इति । एतेषां च समुचयविकल्पबाधपक्षाणां सर्वेषाँ श्रुतिमूलत्वादिच्छया विकल्प । अतो यत्कैश्चित्पण्डितंमन्यैरुक्तम्--'मार्त त्वात्रैष्ठिकत्वादीनां गार्हस्थ्येन श्रौतेन बाधः गार्हस्थ्यानधिकृतान्धकुीबादिविषयता वा' इति तत्स्वाध्यायाध्ययनवैधुर्यनिबन्धनमित्युपेक्षणीयम् । किंच-यथा विष्णु क्रमणाज्यावेक्षणाद्यक्षमतया पंग्वादीनां श्रौतेष्वनधिकारस्तथा । स्मार्तेष्वप्युदकु म्भाहरणभिक्षाचर्यादिष्वक्षमत्वात्कथं पंग्वादिविषयतया नैष्ठिकत्वाद्याश्रमनिर्वाहः अमिश्चाश्रमे ब्राह्मणस्यैवाधिकारः । मनुः (६॥२५)-‘आत्मन्यझीन्समारोप्य ब्राह्मणः प्रत्रजेद्वहात् ।’ तथा (६॥९७)–“एष वोऽभिहितो धर्मो ब्राह्मणस्य चतुर्विधः’ इत्युपक्रमोपसैहाराभ्यां मनुना ब्राह्मणस्याधिकारप्रतिपादनात् । ‘ब्राह्मणाः प्रत्रजन्ति’ इति श्रुतेश्चाग्रजन्मन एवाधिकारो न द्विजातिमात्रस्य । अन्ये तु त्रैवर्णिकानां प्रकृतत्वात् ‘त्रयाणां वर्णानां वेदमधीत्य चत्वार आश्रमाः इति सूत्रकारवचनाच्च द्विजातिमात्रस्याधिकारमाहु ॥ यदा वनादृहाद्वा प्रव्रजति तदा सार्ववेदसदक्षिणां सार्ववेदसी. सर्ववेदसंबन्धिनी दक्षिणा यस्याः सा तथोक्ता तां प्रजापतिदेवताकामिटिं कृत्वा तदन्ते तान्वैतानानझीनात्मनि श्रुत्युक्तविधानेन समारोप्य वशब्दात् ‘उद्गायने पौर्णमास्यां पुरश्चरणमादौ कृत्वा शुद्धेन काये नाष्टौ श्राद्धानि निर्वपेत् द्वादश वा' इति बौधायनाद्युक्तं पुरश्चरणादिकं च कृत्वा थाधीतवेदो जपपरायणो जातपुत्रो दीनान्धकृपणार्पितार्थो यथाशक्यान्नदश्च भूत्वाऽनाहिताझिज्येष्ठत्वादिना प्रतिबन्धाभावे कृताधानो नित्यनैमित्तिकान्यज्ञा ३३५ १ वानप्रस्थधर्मात् ङ. २ गार्हस्थ्योत्तराश्रम ख
पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३६१
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
![](http://upload.wikimedia.org/wikipedia/commons/thumb/2/25/%E0%A4%AF%E0%A4%BE%E0%A4%9C%E0%A5%8D%E0%A4%9E%E0%A4%B5%E0%A4%B2%E0%A5%8D%E0%A4%95%E0%A5%8D%E0%A4%AF%E0%A4%B8%E0%A5%8D%E0%A4%AE%E0%A5%83%E0%A4%A4%E0%A4%BF%E0%A4%83.djvu/page361-1024px-%E0%A4%AF%E0%A4%BE%E0%A4%9C%E0%A5%8D%E0%A4%9E%E0%A4%B5%E0%A4%B2%E0%A5%8D%E0%A4%95%E0%A5%8D%E0%A4%AF%E0%A4%B8%E0%A5%8D%E0%A4%AE%E0%A5%83%E0%A4%A4%E0%A4%BF%E0%A4%83.djvu.jpg)