३४० याज्ञवल्क्यस्मृतिः । । [प्रायश्चित्ताध्यायः यद्यपि जीवपरमात्मनोः पारमार्थिको भेदो नास्ति तथाप्यात्मनः सकाशाद वेिद्योपाधिभेदभिन्नतया जीवात्मानः प्रभवन्ति हि यस्मात् तस्माद्युज्यत एव जीवपरमात्मनोभेदव्यपदेश । यथाहि तसालोहपिण्डाद्योगोलकाद्विस्फुलिङ्ग . कास्तजीवयवा निःसरन्ति निःसृताश्च स्फुलिङ्गव्यपदेशं लभन्ते तद्वत् । अत उप पन्न आत्मात्मनि स्थितो द्रष्टव्य इति । यद्वायमर्थः । ननु सुषुप्तिसमये प्रलये च सकलक्षेत्रज्ञानां ब्रह्मणि प्रलीनत्वात्कस्यायमात्मोपासनाविधिरित्यत आह निःसरन्तीत्यादि । यद्यपि सूक्ष्मरूपेण प्रलयवेलायां प्रलीनास्तथाप्यात्मनःस काशादविद्योपाधिभेदभिन्नतया जीवात्मानः प्रभवन्ति, पुनः कर्मवशात्स्थूलश रीराभिमानिनो जायन्ते, तस्मान्नोपासनाविधिविरोधः तैजसस्थ पृथग्भावसा म्याङलोहपिण्डदृष्टान्तः ॥ ६७ ॥ ननु चानुपात्तवपुषाँ क्षेत्रज्ञानां निष्परिस्पन्दतया कथं तन्निबन्धनो जरायु जाण्डजादिचतुर्विधदेहपरिग्रह इत्यत आह तत्रात्मा हि खयं किंचित्कर्म किंचित्स्वभावतः । करोति किंचिदभ्यासाद्धर्माधर्मोभयात्मकम् ॥ ६८ ।। यद्यपि तस्यामवस्थायां परिस्पन्दात्मकक्रियाभावस्तथापि धर्माधर्माध्यवसा यात्मकं कर्म मानसं भवत्येव । तस्य च विशिष्टशरीरग्रहणहेतुत्वमस्लेयव । (१२॥९)-“वाचिकैः पक्षिमृगतां मानसैरन्त्यजातिताम्’ इति मनुस्मरणात् । एवं गृहीतवपुः स्वयमेवान्वयव्यतिरेकनिरपेक्षः, स्तन्यपानादिके कृते तृप्तिर्भवत्य कृते न भवतीत्येवंरूपौ यावन्वयव्यतिरेकौ तत्र निरपेक्ष प्राग्भवीयानुभवभावेि तभावनानुभावोदूतकार्यावबोधः किंचित्स्तन्यपानादिकं करोति, किंचित्स्वभा वतो यदृच्छया प्रयोजनाभिसंधिनिरपेक्ष पिपीलिकादिभक्षणं करोति; किंचिद्भवा न्तराभ्यासवशाद्धर्माधर्मोभयरूपं करोति । तथाच स्मृत्यन्तरम्–‘प्रतिजन्म यद्भ्यस्तं दानमध्ययनं तपः । तेनैवाभ्यासयोगेन तदेवाभ्यसते पुनः ॥’ इति ॥ एवं जीवानां कर्मवैचित्र्यं तत्कृतं जरायुजादिदेहवैविच्यं युज्यत एव ॥ ६८ ॥ नन्वेवं सति ब्राह्मण एव कथंचिजीवव्यपदेश्यत्वात्तस्य च नित्यत्वादिधर्मत्वा त्कथं विष्णुमित्रो जात इति व्यवहार इत्याशङ्कयाह-- निमित्तमक्षरः कर्ता बोद्धा ब्रह्म गुणी वशी । अजः शरीरग्रहणात्स जात इति कीलर्यते ।। ६९ ।। सत्यमात्मा सकलजगात्प्रपञ्चाविभवेऽवेिद्यासमावेशवशात्समवायसमवायैिः निमित्तमित्येवं स्वयमेव त्रिविधमपि कारणं न पुनः कायकोटिनिविष्टः । यस्मा दक्षरोऽविनश्वरः । ननु सत्त्वादिगुणविकारस्य सुखदुःखमोहात्मकस्य कार्यभूते जगत्प्रपञ्चे दर्शनात्तदुणवत्याः प्रकृतेरेव जगत्कर्तृतोचिता न पुनर्निर्गुणस्य ब्रह्मणः । मैवं मैस्थाः । आत्मैव कर्ता । यस्मादसौ जीवोपभोग्यसुखदुःखहेतुभूतादृष्टादे १ स्पन्दतया कथं ख २ हेतुपुण्यापुण्यादेबौद्धा
पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३६६
एतत् पृष्ठम् अपरिष्कृतम् अस्ति