पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३६८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४२ याज्ञवल्क्यस्मृतःि । [ प्रायिश्चत्ताध्यायः इन्द्रियाणि मनः प्राणो ज्ञानमायुः सुखं धृतिः । धारणा प्रेरणं दुःखमिच्छाहंकार एव च ॥ ७३ ॥ प्रयत आकृतिर्वर्णः खरद्वेषौ भवाभवौ । तयैतदात्मजं सर्वमनादेरादिमिच्छतः ।। ७४ ।। किंच । इन्द्रियाणि ज्ञानकर्मेन्द्रियाणि वक्ष्यमाणानि । मनश्चोभयसाधारणम्। प्राणोऽपानो व्यान उदानः समान इत्येवं पञ्चवृत्तिभेदभिन्नः शारीरो वायुः प्राण ज्ञानमवगमः कालविशेषावच्छिन्नं जीवनम् । सुखं निर्तृति । धृतिश्चि । आयुः तस्थैर्यम् । धारणा प्रज्ञा मेधा च । प्रेरणं ज्ञानकर्मेन्द्रियाणामधिष्ठातृत्वम् । दुःख मुद्वेगः । इच्छा स्पृहा । अहंकारोऽहंकृतिः । प्रयत्र उद्यमः । आकृतिराकारः । वर्णो गौरिमादिः । स्वरः षड्जगान्धारादिः । द्वेषो वैरम् । भवः पुत्रपश्वादिवेि भवः । अभवस्तद्विपर्ययः । तस्यानादेरात्मनो नित्यस्यादिमिच्छतः शरीरं जिघृ क्षमाणस्य सर्वमेतदिन्द्रियादिकमात्मजनितं प्राग्भवीयकर्मबीजजन्यमित्यर्थः ॥७४॥ संयुक्तशुक्रशोणितस्य कार्यरूपपरिणतौ क्रममाह प्रथमे मासि संछेदभूतो धातुचिमूच्छितः । मास्यर्बुदं द्वितीये तु तृतीयेऽङ्गेन्द्रियैर्युतः ॥ ७५ ॥ असौ वेतनः षष्ठो धातुः धातुविमूर्चिछतो धातुषु पृथिव्यादिषु विमूच्छितो लोलीभूतः । क्षीरनीरवदेकीभूत इति यावत् । प्रथमे गर्भमासे संछेदभूतो द्रचरूपतां प्राप्त एवावतिष्ठते न कठिनतया परिणमते । द्वितीयेषु मास्यर्बुदमीष त्कठिनमांसपिण्डरूपं भवति । अयमभिप्रायः-कौध्यपवनजठरदहनाभ्यां प्रति दिनमीषदीषच्छोष्यमाणं शुक्रसंपैर्कसंपादितद्रवीभावं भूतजातं त्रिंशद्भिर्दिनैः काठिन्यमापद्यत इति । तथाच सुश्रुते—‘द्वितीये शीतोष्णानिलैरभिपच्यमानो भूतसंघातो घनो जायते’ इति । तृतीये तु मास्यङ्गेरिन्द्रियैश्च संयुक्तो भवति ७५ आकाशाच्छाघवं सौक्ष्म्यं शब्दं श्रोत्रं बलादिकम् । वायोश्च स्पर्शनं चेष्टां व्यूहनं रौक्ष्यमेव च ।। ७६ ॥ पित्तातु दर्शनं पक्तिमौष्ण्यं रूपं प्रकाशिताम् । रसातु रसनं शैत्यं खेहं छेदं समार्दवम् ॥ ७७ ।। भूमेर्गन्धं तथा घ्राणं गौरवं मूर्तिमेव च । आत्मा गृह्णात्यजः सर्वे तृतीये स्पन्दते ततः ॥ ७८ ॥ किंच । आत्मा गृह्यातीति सर्वत्र संबध्यते । गगनाछधिमानं लङ्कनक्रियोप योगिनम् । सौक्ष्म्यं सूक्ष्मेक्षित्वम् । शब्दं विषयम् । श्रोत्रं श्रवणेन्द्रियम् बलं । १ कोष्ठपवन ङ. २ संपर्काद्रवीभूतं