पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३७४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४८ याज्ञवल्क्यस्मृतिः। [ प्रायश्चित्ताध्यायः पुनश्चासामेव शिरादीनां शाखाप्राचुर्येण संख्यान्तरमाह एकोनत्रिंशङ्क्षाणि तथा नव शतानि च । षटू पञ्चाशच जानीत शिरा धमनिसंज्ञिताः ।। १०१ ॥ शिराधमन्यो मिलिताः शाखोपशाखाभेदेन एकोनत्रिंशलुक्षाणि नवशतानि षट्पञ्चाशच भवन्तीत्येवं हे सामश्रवःप्रभृतयः मुनयो जानीत ॥ १०१ ॥ त्रयो लक्षास्तु विज्ञेयाः श्मश्रुकेशाः शरीरिणाम् । सप्तोत्तरं मर्मशतं द्वे च संधिशते तथा ।। १०२ ।। किंच । शरीरिणां श्मश्रूणि केशाश्च मिलिताः सन्तस्रयो लक्षा विज्ञेयाः । मर्माणि मरणकराणि केशकराणि च स्थानानि तेषां सोत्तरं शतं ज्ञेयम् । अस्यां तु द्वे सन्धिशते स्नायुशिरादिसन्धयः पुनरनन्ताः ॥ १०२ ॥ सकलशरीरसुषिरादिसंख्यामाह रोम्णां कोट्यस्तु पञ्चाशचतस्रः कोठ्य एव च । सप्तषष्टिस्तथा लक्षाः साधः खेदायनैः सह ।। १०३ ।। । वायवीयैर्विगण्यन्ते विभक्ताः परमाणवः । यद्यप्येकोऽनुवेत्येषां भावनां चैव संस्थितिम् ।। १०४ ।। पूर्वोदितशिराकेशादिसहितानां रोम्णां परमाणवः सूक्ष्मसूक्ष्मतररूपा भागाः स्वेदस्रवणसुषिरैः सह चतुःपञ्चाशत्कोट्यः तथा ससोत्तरषष्टिलक्षाः साधः पञ्चाश त्सहस्रसहिताः वायवीयैर्विभक्ताः पवनपरमाणुभिः पृथकृता विगण्यन्ते । एतच्च शास्त्रदृष्ट्याभिहितम् । चक्षुरादिकरणपथगोचरत्वाभावादस्यार्थस्य । इममतिगह नमर्थ शिरादिभावसंस्थानरूपं हे मुनयः, भवतां मध्ये यः कश्चिदनुवेत्ति सोऽपि महान् अयो बुद्धिमताम् । अतो यत्रतो बुद्धिमता बोद्धव्या भावसंस्थितिः ॥ शारीररसादिपरिमाणमाह-- रसस्य नव विज्ञेया जलस्याञ्जलयो दश । ससैव तु पुरीषस्य रक्तस्याष्टौ प्रकीर्तिताः ।। १०५ ।। षट् श्लेष्मा पञ्च पित्तं च चत्वारो मूत्रमेव च । वसा त्रयो द्वौ तु मेदो मलैकोध्र्वे तु मस्तके ।। १०६ ।। श्लेष्मौजसस्तावदेव रेतसस्तावदेव तु । इत्येतदस्थिरं वष्र्म यस्य मोक्षाय कृत्यैसौ ।। १०७ ।। सम्यक्परिणताहारस्य सारो रसस्तस्य परिमाणं नवाञ्जलयः । पार्थिवपरमाणु संश्लेषनिमित्तस्य जलस्याञ्जलयो दश विज्ञेयाः । पुरीषस्य वर्धस्कस्य ससैव । १ एकोनुवेदैषां ङ. २ कृति असैौ इति पदच्छेदः