पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३७५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यतिधर्मप्रकरणम् ४] मेिताक्षरासहिता । ३४९ रक्तस्य जाठरानलपरिपाकापादितलौहित्यस्यान्नरसस्याष्टावऽञ्जलयः प्रकीर्तिता श्रेष्मणः कफस्य षडञ्जलयः । पेित्तस्य तेजसः पञ्च । मूत्रस्योच्चारणस्य चत्वारः । वसाया माँसन्नेहस्य त्रयः । मेदसो मांसरसस्य द्वावञ्जली । मजा त्वस्थिगतसु षिरगतस्तस्यैकोऽञ्जलिः । मस्तके पुनरर्धाञ्जलिः मज्जा श्रेष्मौजसः श्लेष्मसारस्य । तथा रेतसश्चरमधातोस्तावदेवार्धाञ्जलिरेव । एतच समधातुपुरुषाभिप्रायेणोक्तम् । विषमधातोस्तु न नियमः ।–‘वैलक्षण्याच्छरीराणामस्थायित्वात्तथैव च । दोषधा तुमलानां च परिमाणं न विद्यते ॥' इत्यायुर्वेदस्मरणात् । इतीदृशमस्थिस्रा टवाद्यारब्धमेतदशुचिनिधानं वष्मर्मास्थिरमिति यस्य बुद्धिरसौ कृती पण्डितो मोक्षाय समर्थो भवति । वैराग्यनित्यानित्यविवेकयोर्मोक्षोपायत्वात्, अस्थि मूत्रपुरीषादिप्राचुर्यज्ञानस्य वैराग्यहेतुत्वात् । अतएव व्यासः–“सर्वाशुचि निधानस्य कृतन्नस्य विनाशिनः । शरीरकस्यापि कृते मूढाः पापानि कुर्वते ॥ यदि नामास्य कायस्य यदन्तस्तद्वहिर्भवेत् । दण्डमादाय लोकोऽयं शुनः काकाँश्च वारयेत् ॥’ इति । तस्मादीदृशकुत्सितशरीरस्यात्यन्तिकविनिवृत्त्यर्थमात्मोपासने प्रयाततव्यम् ॥ १०५-१०७ ॥ उपासनीयात्मस्वरूपमाह द्वासप्ततिसहस्राणि हृदयादभिनिःसृताः । हिताहिता नाम नाड्यस्तासां मध्ये शशिप्रभम् ।। १०८ ॥ मण्डलं तस्य मध्यस्थ आत्मा दीप इवाचलः । स ज्ञेयस्तं विदित्वेह पुनराजायते न तु ।। १०९ ।। हृदयप्रदेशादभिनिःसृताः कदम्बकुसुमकेसरवत्सर्वतो निर्गता हिताहितकर त्वेन हिताहितेतिसंज्ञा द्वासप्ततिसहस्राणि नाड्यो भवन्ति । अपरास्तिस्रो नाड्यस्तासामिडापिङ्गलाख्ये द्वे नाडयौ सव्यदक्षिणपार्श्वगते हृदि विपर्यस्त नासा विवरसंबद्धे प्राणापानायतने । सुषुन्नाख्या पुनस्तृतीया दण्डवन्मध्ये ब्रह्मरन्ध्र विनिर्गता । तासां नाडीनां मध्ये मण्डलं चन्द्रप्रभं तस्मिन्नात्मा निर्वातस्थदीप इवाचलः प्रकाशमान आते स एवंभूतो ज्ञातव्यः । यतस्तत्साक्षात्करणादिह संसारे न पुनः संसरति अमृतत्वं प्रामोति ॥ १०८ ॥ १०९ ॥ ज्ञेयं चारण्यकमहं यदादित्यादवाप्तवान् । योगशास्त्रं च मत्प्रोक्तं ज्ञेयं योगमभीप्सता ।। ११० ।। किंच । चित्तवृत्तेर्विषयान्तरतिरस्कारेणात्मनि स्थैर्य योगस्तत्प्रास्यर्थ बृहदार ण्यकाख्यमादित्याद्यन्मया प्राप्तं तच्च ज्ञातव्यम् । तथा यन्मयोक्तं योगशास्त्र तदपि ज्ञातव्यम् ॥ १० ॥ कथं पुनरसावात्मा ध्येय इत्यत आह अनन्यविषयं कृत्वा मनोबुद्धिस्मृतीन्द्रियम् । ध्येय आत्मा स्थितो योऽसौ हृदये दीपवत्प्रभुः ।। १११ ॥