पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३७६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५० याज्ञवल्क्यस्मृतिः । [ प्रायश्चित्ताध्यायः आत्मव्यतिरिक्तविषयेभ्यो मनोबुद्धिस्मृतीन्द्रियाणि प्रत्याहृत आत्मेकविष याणि कृत्वा आत्मा ध्येयः । योऽसौ प्रभुर्निर्वातस्थप्रदीपवद्दीप्यमानो निष्प्रकम्पो हृदि तिष्ठति । एतदेव तस्य ध्येयत्वं यचित्तवृत्तेर्बहिर्विषयावभासतिरस्कारेणा त्मप्रवणतानाम शरावसंपुटनिरुद्धप्रभाप्रतानप्रसरस्येव प्रदीपस्यैकनिष्ठत्वम् ॥ १ ११॥ यस्य पुनश्चित्तवृत्तिर्निराकारालम्बनतया समाधौ नाभिरमते तेन शब्दब्रह्मो पासनं कार्यमित्याह यथाविधानेन पठन्सामगायमविच्युतम् । सावधानस्तदभ्यासात्परं ब्रह्माधिगच्छति ।। ११२ ।। । स्वाध्यायावगतमार्गानतिक्रमेण सामगायं सामगानम् । साम्रो गानात्मक त्वेऽपि गायमिति विशेषणं अगीतमञ्चव्युदासार्थम् । अविच्युतमस्खलितं साव धानः सामध्वन्यनुस्यूतात्मैकाग्रचित्तवृत्ति पठंस्तदभ्यासवशात् तत्र निष्णातः शब्दाकारशून्योपासनेन परं ब्रह्माधिगच्छति । तदुक्तम्--'शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति' इति ॥ १ १२ ॥ यस्य पुनवैदिक्यां गीतैौ वित्तं नाभिरमते तेन लौकिकगीतानुस्मृतात्मोपासनं कार्यमित्याह अपरान्तकमुछेोप्यं मद्रकं प्रेकरी तथा । औरवेणकं सरोबिन्दुमुत्तरं गीतकानि च ।। ११३ ।। ऋग्गाथा पाणिका दक्षविहिता ब्रह्मगीतिका । गेयमेतत्तदभ्यासकरणान्मोक्षसंज्ञितम् ।। ११४ ।। अपरान्तकोलोप्यमद्वकप्रकयौवेणकानि सरोबिन्दुसहितं चोत्तरमित्येतानि प्रकराख्यानि सप्त गीतकानि । चवशब्दादासारितवर्धमानकादिमहागीतानि गृह्यन्ते । ऋग्गाथाद्याश्चतस्रो गीतिका इत्येतदपरान्तकादिगीतजातमध्यारोपि तात्मभावं मोक्षसाधनत्वान्मोक्षसंहिर्त मन्तव्यम् । तद्भ्यासयैकाग्रतापादन झारेणात्मैकाग्रतापत्तिकारणत्वात् ॥ ११३ ॥ ११४ ॥ वीणावादनतत्त्वज्ञः श्रुतिजातिविशारदः । तालज्ञश्चाप्रयासेन मोक्षमार्ग नियच्छति ॥ ११५ ।। किंच । भरतादिमुनिप्रतिपादितवीणावादनतत्त्ववेदी । श्रूयत इति श्रुतिः द्वाविं शतिविधा सप्तस्वरेषु । तथाहि । षङ्गमध्यमपञ्चमाः प्रत्येकं चतुःश्रुतयः ऋषभ धैवतौ प्रत्येकं त्रिश्रुती गान्धारनिषादौ प्रत्येकं द्विश्रुती इति । जातयस्तु षङ्गाद्य सप्त शुद्धाः संकरजातयस्त्वेकादशेत्येवमष्टादशविधास्तासु विशारदः प्रवीणः । ताल इति गीतैपरिमाणं कथ्यते । तत्स्वरूपज्ञश्च तदनुविद्धब्रह्मोपासन १ अनुस्मृतात्मैक क. २ मकरी खं ख.३ गीतप्रमाणं कल्प्यते