पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३७७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यतिधर्मप्रकरणम् ४ ] मिताक्षरासहिता । तया तालादिभङ्गभयाचित्तवृत्तेरात्मैकाग्रतायाः सुकरत्वादल्पायासेनैव मुक्तिपर्थ नियच्छति प्राप्नोति ॥ १ १५ चित्तविक्षेपाद्यन्तरायहतस्य गीतज्ञस्य फलान्तरमाहः गीतज्ञो यदि योगेन नामोति परमं पदम् । रुद्रस्यानुचरो भूत्वा तेनैव सह मोदते ।। ११६ ॥ गीतज्ञो यदि कथंचिद्योगेन परमं पदं नामोति तर्हि रुद्रस्य सचिवो भूत्वा तेनैव सह मोदते क्रीडति ॥ १ १६ ॥ पूर्वोक्तमुपसंहरति अनादिरात्मा कथितस्तस्यादिस्तु शरीरकम् । आत्मनस्तु जगत्सर्वं जगतश्चात्मसंभवः ।। ११७ ॥ प्रागुक्तरीत्या अनादिरात्मा क्षेत्रज्ञस्तस्य च शरीरग्रहणमेवादिरुद्भवः कथितः अजः शरीरग्रहणा'दित्यत्र । परमात्मनश्च सकाशात्पृथिव्यादिसकलभुवनोद्भवः तस्मादुद्वैताच्च पृथिव्यादिभूतसंघाताज्जीवानां स्थूलशरीरतायां संभवश्च कथितः

  • सर्गादौ स यथाकाश' मेित्यादिना ॥ १ १७ ॥

एतदेव प्रश्नपूर्वकं विवृणोति कथमेतद्विमुह्यामः सदेवासुरमानवम् । जगदुन्दूतमात्मा च कथं तस्मिन्वदस्व नः ।। ११८ ॥ यदेतत्सकलसुरासुरमनुजादिसहितं जगत्तदात्मनः सकाशात्कथमुत्पन्छं, आत्मा च तस्मिन् जगति कथं तिर्यङ्नरसरीसृपादिशरीरभाग्भवतीत्येतस्मिन्नर्थे विमु ह्यामः । अतो मोहापनुत्यर्थमस्माकं विस्तरशो वदस्व ॥ ११८ ॥ एवं मुनिभिः पृष्टः प्रत्युत्तरमाह मोहजालमपास्येह पुरुषो दृश्यते हि यः । सहस्रकरपन्नेत्रः सूर्यवचः सहस्रकः ।। ११९ ।। स आत्मा चैव यज्ञश्च विश्वरूपः प्रजापतिः । विराजः सोऽन्नरूपेण यज्ञत्वमुपगच्छति ।। १२० ॥ इह जगति यदिदं स्थूलकलेवरादावनात्मन्यात्माभिमानरूपं मोहजालं तदपास्यं तद्धद्यतिरिक्तो यः पुरुषोऽनेककरचरणलोचनः सूर्यवचः अनन्तरश्मिः सहस्रक बहुशिरा दृश्यते । एतच्च तत्तद्वोचरशक्तयाधारतयोच्यते । तस्य साक्षात्काराद्वि संबन्धाभावात् । स एवात्मा यज्ञः प्रजापतिश्च । यतोऽसौ विश्वरूपः सर्वात्मकः । वैश्वरूप्यमेव कथमिति चेत् । यस्मादसौ विराजः पुरोडाशाद्यन्नरूपेण यज्ञत्वमुप गच्छति । यज्ञाश्च वृष्टयादिद्वारेण प्रजासृष्टिरित्यवं वैश्धरूप्यम् ॥ ११९ ॥ १२० ॥ १ भूत्वा सह तेनैव क. ड. २ संभूताश्च पृथिव्यादिभूतसंघाताः जीवानां ङ.