पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३७८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५२ याज्ञवल्क्यस्मृतिः । [ प्रायश्चित्ताध्यायः एतदेव प्रपञ्चयति यो द्रव्यदेवतात्यागसंभूतो रस उत्तमः । देवान्संतप्र्य स रसो यजमानं फलेन च ।। १२१ ॥ संयोज्य वायुना सोमं नीयते रश्मिभिस्ततः । ऋग्यजुःसामविहितं सौरं धामोपनीयते ।। १२२ ।। खमण्डलादसों सूयेः सृजत्यमृतमुत्तमम् । यञ्जन्म सर्वभूतानामशनानशनात्मनाम् ।। १२३ ।। तस्मादन्नात्पुनर्यज्ञः पुनरन्नं पुनः क्रतुः । एवमेतदनाद्यन्तं चक्र संपरिवर्तते ।। १२४ ।। द्रव्यस्य चरुपुरोडाशादेर्देवतोद्देशेन त्यागाद्यो रसः अदृष्टरूपमात्मनः परिण त्यन्तरमुत्तमः सकलजगजन्मबीजतयोत्कृष्टतमः संभूतः स देवान्संप्रदानकारक भूतान्सम्यक्प्रीणयित्वा यजमानं चाभिलषितफलेन संयोज्य पवनेन प्रेर्यमाणश्च न्द्रमण्डलं प्रैति नीयते । ततः शशिमण्डलाद्रश्मिभिभर्भानुमण्डलम् । सैषा त्रय्येव विद्या तपतीत्यभेदाभिधानात् ऋग्यजुःसाममयं प्रत्युपनीयते । ततश्च स्वमण्डला दुसौ सूर्योऽमृतरसं वृष्टिरूपमुत्तमं यत्सकलभूतानामशनानशनात्मनां चराचराणां जनननिमित्तं तत्सृजति । तस्मादृष्टिसंपादितौषधिमयात्प्रजोत्पत्तिहेतोरन्नात्पुनर्यज्ञो यज्ञाच पूर्वाभिहितैभङ्गया पुनरझं अन्नाच पुनः क्रतुरित्येवमेतदखिलं संसारचक्र प्रवाहरूपेणोत्पत्तिविनाशविरहितं सम्यक्परिवर्तत इत्यनेन क्रमेणात्मनः सकाशा दृखिलजगदुत्पत्तिः । तत्र चात्मनः स्वकमनुरूपविग्रहपरिग्रहः ॥ १२१-१२४ ॥ ननु यद्यात्मनः संसरणमनाद्यन्तं तर्खनिर्मुक्तिप्रसङ्ग इत्यत आह-- अनादिरात्मा संभूतिर्विद्यते नान्तरात्मनः । समवायी तु पुरुषो मोहेच्छाद्वेषकर्मजः ।। १२५ ।। यद्यप्यात्मनोऽनादित्वात्संभूतिर्न विद्यते अन्तरात्मनः शरीरव्यापिनः तथापि पुरुषः शरीरेण समवायी भवति भोगायतने सुखदुःखात्मकं भोग्यजातमुपभुङ्गे इत्येवंभूतेन संबन्धेन संबन्धी भवत्येव । सच समवायो मोहेच्छाद्वेषजनितकर्मे निर्मयो नतु निसर्गजातः । तस्य कार्यत्वेन विनाशोपपत्तेननिर्मुक्तिः ॥ १२५ ॥ आत्मनो जगजन्मेत्युक्तं तत्प्रपञ्चयितुमाह सहस्रात्मा मया यो. व आदिदेव उदाहृतः । मुखबाहूरुपञ्जाः स्युस्तस्य वर्णा यथाक्रमम् ।। १२६ ।। १ प्रत्युपनीयते क. २ भिहितसंज्ञात्पुनरत्रं क.