पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३७९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यतिधर्मप्रकरणम् ४ ] मिताक्षरासहिता । पृथिवी पादतस्तस्य शिरसो द्यौरजायत । नस्तः प्राणा दिशः श्रोत्रात्स्पशद्वायुर्मुखाच्छिखी ॥१२७॥ मनसश्चन्द्रमा जातश्चक्षुषश्च दिवाकरः । जघनादन्तरिक्षं च जगच सचराचरम् ।। १२८ ॥ योऽसौ सकलजीवात्मकतया प्रपञ्चात्मकतया च सहस्रात्मा बहुरूपस्तथा सकलजगद्धेतुतया आदिदेवो मया युद्धाकमुदाहृतः तस्य वदनभुजसक्थिचरण जाता यथाक्रममप्रजन्मादयश्चत्वारो वर्णा । तथा तस्य पादामिर्मस्तकात्सुरसद्म घ्राणात्प्राणः कर्णात्ककुभः स्पशत्पवनो वदनादुतवहः मनसः शशाङ्कः नेत्राद्भानु जघनाद्भगानं जङ्गमाजङ्गमात्मकं जगाञ्च ॥ १२६-१२८ ॥ अत्र चोदयन्ति यद्येवं स कथं ब्रह्मन्पापयोनिषु जायते । ईश्वरः स कथं भावैरनिष्टैः संप्रयुज्यते ॥ १२९ ।। हे ब्रह्मन् योगीश्वर, यद्यात्मैव जीवादिभावं भजते तर्हि कथमसौ पापयो निषु मृगपक्ष्यादिषु जायते । अथ मोहरागद्वेषादिदोषदुष्टत्वात्तत्र जन्मेत्युच्यते । तच्च न । यस्मादीश्वरः स्वतन्त्रः कथमनिष्टमहरागादिभावैः संयुज्येत ॥ १२९ ॥ करणैरन्वितस्यापि पूर्वं ज्ञानं कथंचन । वेत्ति सर्वगतां कस्मात्सर्वगोऽपि न वेदनाम् ।। १३० ॥ किंच । तथेदमप्यत्र दूषणम् । मनःप्रभृतिज्ञानोपायैः सहितस्यापि तस्या त्मनः पूर्वज्ञानं जन्मान्तरानुभूतविषयं कस्मान्नोत्पद्यते । तथा सर्वप्राणिगतt वेदनां सुखदुःखादिरूपाँ स्वयं सैर्वगोऽपि सर्वदेहगतोऽपि कस्मान्न वेति । तस्मादात्मैवेश्धरो जीवादिभावं भजत इत्ययुक्तम् ॥ १३० ॥ तत्र पूर्वचोद्यस्योत्तरमाह अन्त्यपक्षिस्थावरतां मनोवाक्कायकर्मजैः । दोषैः प्रयाति जीवोऽयं भवयोनिशतेषु च ।। १३१ ॥ यद्यपीश्वरः स्वरूपेण सत्यज्ञानानन्दलक्षणः तथाप्यविद्यासमावेशवशान्मोह रागादिभावैरभिभूयमानो नानाहीनयोनिजननसाधनं मानसादित्रिविधं कर्मनि चयमाचरति । तेन चान्त्यजादिहीनयोनितामापद्यते । अन्याश्चण्डालाद्यः, पक्षिणः काकाद्यः, स्थावरा वृक्षादयः तेषां भावोऽन्त्यपक्षिस्थावरता तां यथा क्रमेण मनोवाक्कायारब्धकर्मदोषैर्जन्मसहस्त्रेष्वयं जीवः प्रामोति ॥ १३ १ ॥ अनन्ताश्च यथा भावाः शरीरेषु शरीरिणाम् । रूपाण्यपि तथैवेह सर्वयोनिषु देहिनाम् ।। १३२ ।। १ तत्तज्जन्मेत्युच्यते ङ. २ करणेनान्वितस्य ख. सर्वज्ञोपि ङ.