पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३८०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५४ याज्ञवल्क्यस्मृतिः । [ प्रायश्चित्ताध्यायः किंच शरीरिणां जीवानां शरीरेषु भावा अभिप्रायविशे षाः सत्वाद्युद्वेदकतारत म्याद्यथानन्तास्तथा तत्कार्याण्यपि कुञ्जवामनत्वादीनि रूपाणि देहिनां सर्वयोनिषु भवन्ति ॥ १३२ ॥ ननु यदि कर्मजन्यानि कुञ्जत्वादीनि तर्हि कर्मानन्तरमेव तैर्भवितव्यमित्या याह विपाकः कर्मणां प्रेत्य केषांचिदिह जायते । इह वामुत्र चैकेषां भावस्तत्र प्रयोजनम् ।। १३३ ॥ केषांचिज्योतिष्टोमादिकर्मणां विपाकः फलं प्रेत्य देहान्तरे भवति । केषािं त्कारीयदिकर्मणां वृष्टयादिफलमिहैव भवति । केषांचिचित्रादीनां फलं पश्चादि कमेिह देहान्तरे वेत्यनियतम् । नह्यनन्तरमेव कर्मफलेन भवितव्यमिति शास्त्रार्थः । अत्र च कर्मणां शुभाशुभफलजनकत्वे सत्वादिभाव एव प्रयोजकभूत स्तदायत्तत्वात्फलतारतम्यस्य ॥ १३३ ॥ मनोवाक्कायकर्मजैरन्त्यादियोनीः प्रामोतीत्युक्तं तत्प्रपञ्चयितुमाह परद्रव्याण्यभिध्यायंस्तथानिष्टानि चिन्तयन् । वितथाभिनिवेशी च जायतेऽन्त्यासु योनिषु ।। १३४ ।। परधनानि कथमहमपहरेयमेित्याभिमुख्येन ध्यायंस्तथानिष्टानि ब्रह्महत्या दीनि हिंसात्मकानि करिष्यामीति चिन्तयन् वितथे असल्यभूते वस्तुनि अभि निवेशः पुनःपुनः संकल्पस्तद्वांश्च श्वचण्डालाद्यन्त्ययोनिषु जायते ॥ १३४ ॥ पुरुषोऽनृतवादी च पिशुनः परुषस्तथा । अनिबद्धप्रलापी च मृगपक्षिषु जायते ।। १३५ ।। किंच । यस्त्वनृतवदनशीलः पुरुषः पिशुनः कर्णेजपः पुरुषः परोद्वेगकरभाषी अनिबद्धप्रलापी प्रकृतासङ्गतार्थवादी च बुद्धिपूर्वाबुद्धिपूर्वदितारतम्याद्धीनोत्कृष्टेषु मृगपक्षिषु जायते ॥ १३५ ॥ अदत्तादाननिरतः परदारोपसेवकः । हिंसकश्चाविधानेन स्थावरेष्वभिजायते ।। १३६ ॥ किंच । अदत्तादाननिरतः अदत्तपरधनापहारप्रसक्तः परदारप्रसक्तश्च अविहि तमार्गेण प्राणिनां घातकश्च दोषगुरुलघुभावतारतम्यात्तरुलताप्रतानादिस्थावरेषु लायते ॥ १३६ ॥ सत्वादिगुणपरिपाकमाह-- आत्मंज्ञः शौचवान्दान्तस्तपस्वी विजितेन्द्रियः । धर्मकृद्वेदविद्यावित्सात्विको देवयोनिताम् ।। १३७ ।। १ योनितां प्राझेोतीति ङ. २ पूर्वावृत्यादि ख