यतिधर्मप्रकरणम् ४] मिताक्षरासहिता । आत्मज्ञो विद्याधनाभिजनाद्यभिमानरहितः शौचववान् बाह्याभ्यन्तरशौचयुक्तः दान्त उपशमान्वितः तपस्वी कृच्छूादितपोयुक्तः तथेन्द्रियार्थेष्वप्रसक्तः नित्यनै मित्तिकधर्मानुष्ठाननिरतः वेदार्थवेदी च यः सात्त्विकः स च सत्त्वोद्रेकतारतम्यै वशादुत्कृष्टोत्कृष्टतरसुरयोनेितां प्राझेोति ॥ १३७ ॥ असत्कार्यरतो धीर आरम्भी विषयी च यः । स राजसो मनुष्येषु मृतो जन्माधिगच्छति ॥ १३८ ।। किंच । असत्कार्येषु तूर्यवादित्रनृत्यादिष्वभिरतो यस्तथा अधीरो व्यग्रचित्तः आरम्भी सदा कार्याकुलो विषयेष्वतिप्रसक्तश्च स रजोगुणयुक्तः तदुणतारतम्या द्धीनोत्कृष्टमनुष्यजातिषु मरणानन्तरमुत्पत्तिं प्रामोति ॥ १३८ ॥ निद्रालुः कूरकृछुब्धो नास्तिको याचकस्तथा । प्रमादवान्भिन्नवृत्तो भवेत्तिर्यक्षु तामसः ।। १३९ ।। तथा च यः पुनर्निद्राशीलः प्राणिपीडाकरो लोभयुक्तश्च तथा नास्तिको धर्मा देर्निन्दकः याचनशीलः प्रमादवान् कार्याकार्यविवेकशून्यः विरुद्धाचारश्च असौ तमोगुणयुक्तस्तत्तारतम्याद्धीनहीनतरपश्धादियोनिषु जायते ॥ १३९ ॥ सा तमसा चैवं समाविष्टो भ्रमन्निह । भावैरनिष्टैः संयुक्तः संसारं प्रतिपद्यते ॥ १४० ।। एवमविद्यावेिद्धोऽयमात्मा रजस्तमोभ्यां सस्याविष्ट इह संसारे पर्यटन् नानाविधदुःखप्रदैभवैरभिभूतः पुनः पुनः संसारं देहग्रहणं प्राप्तोति । इतीश्वर स कथं भावैरनिष्टैः संप्रयुज्यत इत्यस्य चोद्यस्यानवकाश ॥ १ ४० ॥ यदपि करणैरन्वितस्यापीति द्वितीयं चोद्य तस्योत्तरमाह मलिनो हि यथादशों रूपालोकस्य न क्षमः । तथाविपककरण आत्मज्ञानस्य न क्षमः ।। १४१ ॥ यद्यप्यात्मा अन्तःकरणादिज्ञानसाधनसंपन्नस्तथापि जन्मान्तरानुभूतार्थाव बोधे न समर्थः अवेिपञ्चककरणो रागादिमलाक्रान्तचित्तो यस्मात् । यथा दर्पणो मलच्छन्नो रूपज्ञानोत्पादनसमर्थो न भवति ॥ १४१ ॥ ननु प्राग्भवीयज्ञानस्याप्यात्मप्रकाशित्वात् तस्य च स्वतःसिद्धत्वान्नानुपलम्भो ३५५ कद्वेर्वारौ यथापके मधुरः सत्रसोऽपि न । प्राप्यते ह्यात्मनि तथा नापककरणे ज्ञता ।। १४२ ।। १ तारतम्यादुत्कृष्ट क. २ अन्तःकरणादेशन ख या० ३३
पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३८१
एतत् पृष्ठम् अपरिष्कृतम् अस्ति