३५६ अपके कट्रेवरौ तिक्तकर्कटिकायां विद्यमानोऽपि मधुरो रसो यथा नोपलभ्यते तथात्मन्यपककरणे . विद्यमानापि ज्ञता ज्ञातृता प्राग्भवीयवस्तुगोचरता न प्राप्यते ॥ ॥ १४२ ‘वेत्ति सर्वगतां कस्मात्सर्वगोऽपि न वेदना'मिति यदुक्तं तत्रोत्तरमाह सर्वाश्रयां निजे देहे देही विन्दति वेदनाम् । योगी मुक्तश्च सर्वासां योगंमाझेोति वेदनाम् ।। १४३ ॥ यः पुनर्देही देहाभिमानयुक्तः स सर्वाश्रयामाध्यात्मिकादिरूंपाँ वेदनां स्वकर्म पंििर्जत एव देहे प्राप्तोति न देहान्तरगतां भोगायतनारम्भादृष्टवैलक्षण्यादेव । यस्तु योगी मुक्तो मुक्ताहंकारादिः सकलक्षेत्रगतानां सुखदुःखादिसंविदां वेदिता भवति परिपक्करणत्वात् ॥ १४३ ॥ नन्वेकस्मिन्नात्मनि सुरनरादिदेहेषु भेदप्रत्ययो न घटत इत्याशङ्कयाह आकाशमेकं हि यथा घटादिषु पृथग्भवेत् । तथांत्मैको ह्यनेकश्च जलाधारेष्विवांशुमान् ।। १४४ ।। यथैकमेव गगनं कूपकुम्भाद्युपाभिभेदभिन्न नानेवानुभूयते, यथा वा भानुरे कोऽपि भिन्नेषु जलभाजनेषु करकमणिकमल्लिकादिपुनानेवानुभूयते तथैकोऽप्यात्मा अन्तःकरणोपाधिभेदेन नाना प्रतीयते । द्वितीयदृष्टान्तोपादानमात्मभेदस्यापार मार्थिकत्वद्योतनार्थम् ॥ १४४ ॥ ‘पञ्चधातून्स्वयं षष्ट युगपत्प्रभु' रित्याद्युक्तमर्थमुपसंहृत्याह -आदत्ते ब्रह्मखानिलतेजांसि जलं भूवेति धातवः । इमे लोका एष चात्मा तस्माच्च सचराचरम् ।। १४५ ।। ब्रह्म आत्मा खं गगनं अनिलो वायुः तेजोऽग्निः जलं प्रसिद्धं भूश्चेत्येते वाता दिधातव एव शरीरं व्याप्य धारयन्तीति धातवोऽभिधीयन्ते । तत्र खादयः पञ्च धातवः लोक्यन्ते दृश्यन्ते इति लोका । जडा इति यावत् । एष विद्धातुरात्मा एतस्माज्जडाजडसमुदायात्स्थावरजङ्गमात्मकं जगदुत्पद्यते ॥ १४५ ॥ कथमसावात्मा जगत्सृजतीत्याह मृद्दण्डचत्रकसंयोगात्कुम्भकारो यथा घटम् । करोति तृणमृत्काटैगृहं वा गृहकारकः ।। १४६ ।। हेममात्रमुपादाय रूपं वा हेमकारकः । निजलालासमायोगात्कोशं वा कोशकारकः ।। १४७ ।। याज्ञवल्क्यस्मृतिः । । [ प्रायश्चित्ताध्यायः १ योनवाझोति क. २ त्मिकादिबहुरूपां ख .
पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३८२
एतत् पृष्ठम् अपरिष्कृतम् अस्ति