याज्ञवल्क्यस्मृतिः । । [ प्रायश्चित्ताध्यायः शुभाशुभफलद्योतनै जागरैजगरावस्थाजन्यैश्च सच्छिद्रादित्यादिदर्शनैः तथा स्वमजैः खरवराहयुक्तरथारोहणादिज्ञानैः, तथा आकाशाचैश्च जीवोपभोगार्थतया सृष्टैः, तथा मन्वन्तरप्राध्या युगान्तरप्रास्या देहेऽनुपपद्यमानतया, तथा मन्त्री षधिबलैः प्रेक्षापूर्वकैः क्षुद्रकर्माचैः साक्षात्परम्परया वा देहेऽनुपपद्यमानैर्वेद्यमानं हे मुनयः, वित्त जानीत ॥ १७०-१७३ ॥ अहंकारः स्मृतिर्मेधा द्वेषो बुद्धिः सुखं धृतिः । इन्द्रियान्तरसंचार इच्छा धारणजीविते ॥ १७४ ॥ खर्गः खमश्च भावानां प्रेरणं मनसो गतिः । निमेषश्चेतना थल आदानं पाञ्चभौतिकम् ।। १७५ ॥ यत. एतानि दृश्यन्ते लिङ्गानि परमात्मनः । तस्मादस्ति परो देहादात्मा सर्वग ईश्वरः ।। १७६ ।। किंच ।. अहंकृतिरहंकारः । स्मृतिः प्राग्भवीयानुभवभाचेितसंस्कारोद्धोधनिब न्धना स्तन्यपानादिगोचरा । सुखमैहिकम् । धृतिधैर्यम् । इन्द्रियान्तरेण हेि द्रष्टेऽर्थे इन्द्रियान्तरस्य संचारो यमहमद्राक्ष तमहं स्पृशामीत्येवमनुसन्धानरूप इन्द्रियान्तरसंचार । अत्रेच्छाप्रयलचैतन्यानां स्वरूपेण लिङ्गत्वम् । पूर्वश्लोके तु गमनसत्यवचनादिहेतुतया आर्थिकं लिङ्गत्वमेित्यपौनरुक्तस्यम् । तथा धारणं शरी रस्य । जीवितं प्राणधारणम् । स्वर्गे नियतदेहान्तरोपभोग्यः सुखविशेषः । स्वम प्रसिद्धः । पूर्वश्लोके तु स्वप्स्य शुभफलद्योतैनाय लिङ्गत्वं अत्र स्वरूपेणेत्यपौनरु क्त्यम् । तथा भावानामिन्द्रियादीनां प्रेरणम् । मनसो गतिश्चेतनाधिष्ठानव्याप्ता । निमेषः प्रसिद्धः । तथा पञ्चभूतानामुपादानम् । यस्मादेतानि लिङ्गानि भूतेष्व नुपपन्नानि साक्षात्परम्परया वा परमात्मनो द्योतकानि दृश्यन्ते तस्मादस्ति देहातिरिक्त आत्मा सर्वग ईश्वर इति सिद्धम् ॥ १७४-१७६ ॥ क्षेत्रज्ञस्वरूपमाह बुद्धीन्द्रियाणि सार्थानि मनः कर्मेन्द्रियाणि । २चव अहंकारश्च बुद्धिश्च पृथिव्यादीनि चैव हेि ।। १७७ ।। अव्यक्तमात्मा क्षेत्रज्ञः क्षेत्रस्यास्य निगद्यते । ईश्वरः सर्वभूतस्थः सन्नसन्सदसच यः ॥ १७८ ।। बुद्धीन्द्रियाणि श्रोत्रादीनि सार्थानि शब्दादिविषयसहितानि मनः कर्मेन्द्रि याणि वागादीनि तथाहंकारो बुद्धिश्च निश्चयात्मिका पृथिव्यादीनि पञ्चभूतानि अव्यक्तं प्रकृतिरित्येतत् क्षेत्रमस्य सर्वगतः अतएव सद्वपः प्रमा योऽसावीश्वरः १ श्रेोकेऽनुगमन ङ. २ द्योतकतया क .
पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३८८
एतत् पृष्ठम् अपरिष्कृतम् अस्ति