पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
ब्रह्मचारिप्रकरणम् २ ]
मिताक्षरासहिता ।

तथा स्मृत्यन्तरप्रसिद्धं पालाशादिदण्डं, अजिनं काष्णौदि, उपवीतं कार्प सादिनिर्मितं, मेखलां च मुञ्जादिनिर्मिती , ब्राह्मणादिह्मचारी धारयेत्। ॥ भक्षचयाप्रकारः-

ब्राह्मणेषु चरेद्वैक्षमनिन्द्येष्वात्मवृत्तये ।। २९ ॥
आदिमध्यावसानेषु भवच्छब्दोपलक्षिता ।
ब्राह्मणक्षत्रियविशां भैक्षचर्या यथाक्रमम् ॥ ३० ॥

पूर्वोक्तदण्डादियुक्तो ब्रह्मचारी ब्राह्मणेष्वनिन्द्येषु अभिशस्तादिव्यतिरिक्तषु स्व कर्मनिरतेषु भैक्षं चरेत् । आत्मवृत्तये आत्मनो जीवनाय न परार्थ आचार्येतद्भा यपुत्रव्यतिरेकेण । निवेद्य गुरवे तदनुज्ञातो भुञ्जीत । तदभावे तत्पुत्रादाविति नियमात् । अत्र च ब्राह्मणग्रहणं संभवे सैति नियमार्थम्। यत्तु सार्ववर्णिकं भैक्ष चरणमिति तत्रैवर्णिकविषयम् । यच्च चातुर्वण्र्य चरेद्वैक्षमिति तदापद्विषयम् । कथं भैक्षचर्या कार्या । आदिमध्यावसानेषु भवच्छब्दोपलक्षिता । भवति भिक्षां देहि । भिक्षां भवति देहि । भिक्षां देहि भवति इत्येवं वर्णक्रमेण भैक्षचर्या कार्या ॥ २९ ॥ ३० ॥ भोजनप्रकारः-

कृताग्किार्यो भुञ्जीत वाग्यतो गुर्वनुज्ञया।
अपोशनक्रियापूर्व सत्कृत्यान्नमकुत्सयन् ॥ ३१ ॥

पूर्वोत्तेन विधिना भिक्षामाहृत्य गुरवे निवेद्य तदनुज्ञया कृताझिकायों वाग्यतो मौनी अन्न सत्कृत्य संपूज्य अकुत्सयन्ननिन्दन् अपोशनक्रियां अमृतो पस्तरणमसीत्यादिकां पूर्वं कृत्वा भुञ्जीत । अत्र पुनरग्निकार्यग्रहणं संध्याकाले कथंचिद्कृताझिकार्यस्य कालान्तैरविधानार्थे न पुनस्तृतीयप्राप्यर्थम् ॥ ३१ ॥

ब्रह्मचर्ये स्थितो नैकमन्नमद्यादनापदि ।
ब्राह्मणः काममश्रीयाच्छाद्धे व्रतमपीडयन् ॥ ३२ ॥

ब्रह्मचर्ये स्थित एँकान्न नाद्यादनापदि व्याध्याद्यभावे । ब्राह्मणः पुनः श्राद्धेः ऽभ्यर्थितः सन् कॉममश्रीयात् । चतमपीडयन् मधुमांसपरिहारेण । अत्र ब्राह्मण ग्रहणं क्षत्रियादेः श्राद्धभोजनव्युदासार्थम् । ‘राजन्यवैश्ययोश्चैव नैतत्कर्म प्रचक्षते’ इति स्मरणात् ॥ ३२ ॥ मधुमांसादिवज्र्यान्याह-

मधुमांसाञ्जनोच्छिष्टशुक्तस्त्रीप्राणिहिंसनम् ।
भास्करालोकनाश्लीलपरिवादादि वर्जयेत् ॥ ३३ ॥


१ काष्णाजिनादि ख. २ दिदोषरहितेषु ख. ३ सति । न नियमार्थ ख. ४ त्रैवर्णिका प्राप्स्यर्थम्. ख. ५ कालान्तरं मध्याह्नादि. ६ एकान्नमेकस्वामिकम्. ७ कामं यथेष्टम्.