पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३९२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

याज्ञवल्क्यस्मृतिः । पितृलोकं वन्द्रमसं वायुं वृष्टिं जलं महीम्। क्रमात्ते संभवन्तीह पुनरेव व्रजन्ति च ॥ १९६ ।। एतद्यो न विजानाति मार्गद्वितयमात्मवान् । दन्दशूकः पतङ्गो वा भवेत्कीटोऽथवा कृमिः ।। १९७ ।। ये पुनर्विहितैर्मागैर्यज्ञदानतपोभिः स्वर्गफलभोक्तारस्ते क्रमाडूमादिचन्द्रपर्य न्तपदार्थाभिमानिनीर्देवताः प्राप्य पुनरेव वायुवृष्टिजलभूमीः प्राप्य ब्रीह्याद्यन्न रूपेण शुक्रत्वमवाप्य संसारिणो योनिं व्रजन्ति । एतन्मार्गद्वयं प्रमत्तो यो न विजानाति मार्गद्वयोपायभूतधर्मानुष्ठानं न करोति असौ दन्दशूको भुजङ्गः, पतङ्गः शलभः, कृमिः कीटो वा भवेत् ॥ १९५-१९७ ॥ [ प्रायश्चित्ताध्यायः १ न्यस्यतरं करम् ड. पाठः. . ऊरुस्थोत्तानचरणः सव्ये न्यस्योत्तरं करम् । उत्तानं किंचिदुन्नाम्य मुखं विष्टभ्य चोरसा ।। १९८ ।। निमीलिताक्षः सत्त्वस्थो दन्तैर्दन्तानसंस्पृशन् । तालुस्थाचलजिह्वश्च संवृतास्यः सुनिश्चलः ॥ १९ ॥ संनिरुद्धयेन्द्रियग्रामं नातिनीचोच्छूितासन । द्विगुणं त्रिगुणं वापि प्राणायाममुपक्रमेत् ।। २० ।। ततो ध्येयः स्थितो योऽसौ हृदये दीपवत्प्रभुः । धारयेत्तत्र चात्मानं धारणां धारयन्बुधः ।। २०११ ।। ऊरुस्थावुत्तानौ चरणौ यस्य स तथोक्तः बद्धपद्मासन । तथोत्ताने सव्यकरे दक्षिणमुत्तानं न्यस्य मुखं किंचिदुन्नाम्योरसा च विष्टभ्य स्तम्भयित्वा तथा निमीलिताक्षः सत्त्वस्थः कामक्रोधादिरहितो दन्तैर्दन्तानसंस्पृशन् तथा तालुनि स्थिता अचला जिह्वा यस्य स तथोक्तः । तथा संवृतास्यः पिहिताननः सुनिश्चलो निष्प्रकम्पः तथा सम्यगिन्द्रिथसमूहं विषयेभ्थः प्रत्याहृत्य नातिनीचासनो नात्यु च्छूितासनो यथा चित्तचिक्षेपो न भवति तथोपविष्टः सन् द्विगुणं त्रिगुणं वा प्राणायामाभ्यासमुपक्रमेत् । ततो वशीकृतपवनेन योगिना योऽसौ हृदये दीप चदप्रकम्पः प्रभुः स्थितोऽसौ ध्यातव्य । तत्र च हृदि आत्मानं मनोगोचरतया धारयेत् । धारणामवधारयन् । धारणास्वरूपं च । जान्वप्रभ्रमणेन च्छोटेि कादानकालो मात्रा । ताभिः पञ्चदशमात्राभिरधमः प्राणायामः । त्रिंशद्भिर्म ध्यमः । पञ्चचत्वारिंशद्भिरुत्तमः । एवं प्राणायामत्रयात्मिकैका धारणा । तास्तिस्रो