पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३९३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रायश्चित्तप्रकरणम् ५ ] मिताक्षरासहिता । ३६७ योगशब्दवाच्यास्ताश्च धारयेत् । यथोक्तमन्यत्र–“संभ्रम्य च्छोटेिकां दद्यात्क राग्रं जानुमण्डले । मात्राभिः पञ्चदशभिः प्राणायामोऽधमः स्मृत ॥ मध्यमो द्विगुणः श्रेष्ठख्रिगुणो धारणा तथा । त्रिभिस्त्रिभिः स्मृतैकैका ताभिर्योगस्तथैव च ॥' इति ॥ १९८-२०११ ॥ धारणात्मकयोगाभ्यासे प्रयोजनमाह अन्तर्धानं स्मृतिः कान्तिईष्टिः श्रोत्रज्ञता तथा । निर्ज शरीरमुत्सृज्य परकायप्रवेशनम् ॥ २०२ ।। अर्थानां छन्दतः सृष्टिर्योगसिद्धेश्च लक्षणम् । सिद्धे योगे त्यजन्देहममृतत्वाय कल्पते ।। २०३ ।। अणिमप्रास्या परैरदृश्यत्वमन्तर्धानम् । स्मृतिरतीन्द्रियेष्वर्थेषु मन्वादेरिव स्मर णम् । कान्तिः कमनीयता । दृष्टिरतीतानागतेष्वप्यर्थेषु । तथा श्रोत्रज्ञता अति द्वीयसि देशेऽभिव्यज्यमानतया श्रोत्रपथमनासेदुषामपि शब्दानां ज्ञातृता । निजशरीरत्यागेन परशरीरप्रवेशनम् । स्ववाञ्छावशेनार्थानां कारणनिरपेक्षतया सृष्टिरित्येतद्योगस्य सिद्धेर्लक्षणं लिङ्गम् । नचैतावदेव प्रयोजनं किंतु सिद्धे योगे त्यजन्देहममृतत्वाय कल्पते ब्रह्मत्वप्राप्तये च प्रभवति ॥ ९०२ ॥ २०३ ॥ यज्ञदानाद्यसंभवे अथवाप्यभ्यसन्वेदं न्यस्तकर्मा वने वसन् । अयाचिताशी मितभुक्परां सिद्धिमवाप्नुयात् । ॥ २०४ ।। अथवा त्यक्तकाम्यनिषिद्धकर्मा अन्यतमं वेदमभ्यसन् एकान्तशीलोऽयाचित मेिदाशनापादितसत्त्वशुद्धिरात्मोपासनेन परां मुक्तिलक्षणां सिद्धिं प्राप्तोति ॥२०४॥ न्यायागतधनस्तत्वज्ञाननिष्ठोऽतिथिप्रियः । श्राद्धकृत्सत्यवादी च गृहस्थोऽपि हेि मुच्यते ।। २०५ ।। किंच । सत्प्रतिग्रहादिन्यायेनोपार्जितधनः अतिथिपूजातत्परः नित्यनैमित्तिक श्राद्धानुष्ठाननिरतः सत्यवदनशीलः सन्नात्मतत्त्वध्याननिरतो गृहस्थोऽपि हि यस्मा न्मुक्तिमवाशोति तस्मान्न केवलमैहिकपैरिव्राज्यपरिग्रह एव मुक्तिसाधनम् ॥२०५॥ इत्यध्यात्मप्रकरणम् । अथ प्रायश्चित्तप्रकरणम् ५ वर्णाश्रमेतराणां नो बूहि धर्मानशेषतः' इत्यत्र प्रतिपाद्यतया प्रतिज्ञातषड्रिध धर्ममध्ये पञ्चप्रकारं धर्ममभिधायाधुनाऽवशिष्टं नैमित्तिकं धर्मजातं प्रायश्चित्त पदाभिलप्यं प्रारिप्सुः प्रथमतस्तत्प्ररोचनार्थमधिकारिविशेषप्रदर्शनार्थ चार्थवादः रूपं कर्मविपाकं तावदाह -१ सिद्धेहिं, सिद्धिर्हि ख. २ अणिमाप्राझ्या ख. ३ करणनिरपेक्ष ख. ४ पारिव्रज्य'ख या० ३४