पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३९५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रायश्चित्तप्रकरणम् ५ ] मिताक्षरासहिता । किंच । एवं रौरवादिनरकेषु श्वसूकरखरादियोनिषु च दारुणं दुःखमनुभूया नन्तरं दुरितशेषेण जननसमय एव क्षयरोगादिलक्षणयुक्ताः । प्रचुरेषु मानव शरीरेषु संसरन्ति । ब्रह्महा क्षयरोगी राजयक्ष्मी भवेत् । निषिद्धसुरापः स्वभा वतः कृष्णदशनः । ब्राह्मणहेस्रो हर्ता कुत्सितनखत्वम् । गुरुदारगामी दुश्चर्मत्वं कुष्ठिताम् ॥ २०९ ॥ एतेषां ब्रह्महादीनां मध्ये येन पतितेन यः पुरुषः संवसति स तलिङ्गोऽभिजायते ॥ अन्नहर्तामयावी स्यान्मूको वागपहारकः ॥ २१० ।। धान्यमिश्रोऽतिरिक्ताङ्गः पिशुनः पूतिनासिकः । तैलहृतैलपायी स्यात्पूतिवक्रस्तु सूचकः ॥ २१ ॥ ३६९ किंच । अन्नस्यापहर्ता आमयावी अजीर्णान्नः । वागापहारकोऽननुज्ञाताध्यायी पुस्तकापहारी च मूको वागेिन्द्रियविकलो भवेत् । धान्यमेिश्रोऽतिरिक्ताङ्ग षडङ्गुल्यादिः पिशुनो विद्यमानपरदोषप्रख्यापनशीलः । पूतिनासिकः दुर्गन्ध नासिकः तैलस्य हर्ता तैलपायी कीटविशेषो भवति । सूचकोऽसद्दोषसंकीर्तनी दुर्गन्धिवदनो जायते । एतच तिर्यक्त्वप्राप्युत्तरकालं मानुषशरीरप्राप्तौ द्रष्टव्यम् ( १२॥६८)-यद्वा तद्वा परद्रव्यमपहृत्य बलान्नरः । अवश्यं याति तिर्यक्त्वं जग्ध्वा चैवाहुतं हविः ॥' इति मनुस्मरणात् ॥ २१० ॥ २१ ॥ १ परस्य योषितं हृत्वा ब्रह्मखमपहृत्य च । अरण्ये निर्जले देशे भवतेि ब्रह्मराक्षसः ।। २१२ ।। किंच । हीनजातैौ हेमकाराख्यायां पक्षिजातौ परलाद्यपहारको जायते । निर्जले देशे ब्रह्मराक्षसो भूतविशेषो जायते ॥ २१२ ॥ हीनजातौ प्रजायेत परलापहारकः । पत्रशाकं शिखी हत्वा गन्धाञ्छुच्छुन्दरी शुभान् ॥२१३॥ किंच । हीनजातौ हेमकाराख्यायां पक्षिजातौ पररखाद्यपहारको जायते । तथाच मनुः (१२॥६१)-‘मणिमुक्ताप्रवालानि हृत्वा लोभेन मानवः । विविधानि च रखानि जायते हेमकर्तृषु ॥' इति । पत्रात्मकं शाकं हृत्वा मयूरः । शुभान्गन्धानपहृत्य छुच्छुन्दरी राजदुहिताख्या मूषिका जायते ॥ २१३ ॥ मूषको धान्यहारी स्याद्यानमुष्ट्रः कपिः फलम् । जलं वः पयः काको गृहकारी द्युपस्करम् ।। २१४ ॥