पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३९८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३७२ ॥ [प्रायश्चित्ताध्याय एवं प्रायश्चित्तेषु प्ररोचनार्थ कर्मविपाकमभिधायाधुना तेष्वेवाधिकारिणं निरू पयितुमाह विहितस्याननुष्ठानान्निन्दितस्य च सेवनात् । अनिग्रहाचेन्द्रियाणां नरः पतनमृच्छति ।। २१९ ॥ तस्मात्तनेह कर्तव्यं प्रायश्चित्तं विशुद्धये । एवमस्यान्तरात्मा च लोकचैव प्रसीदति ।। २२० ।। विहितमिति यदावश्यकं संध्योपासनाग्निहोत्रादिकं नित्यमशुचिस्पशदौ नैमि तिक्रत्वेन चोदितं स्नानादिकं च तदुभयमुच्यते तस्याकरणातू, निन्दितस्य निषि द्धस्य सुरापानादेः करणात्, इन्द्रियाणामनिग्रहाच नरः पतनमृच्छति प्राप्तोति । प्रत्यवायी भवतीति यावत् ॥ ननु ‘इन्द्रियार्थेषु सर्वेषु न प्रसज्येत कामत इतीन्द्रियप्रसक्तरपि निषिद्धत्वान्निन्दितग्रहणेनैव गतार्थत्वात्किमर्थमनिग्रहाचे न्द्रियाणामिति पृथगुपादानम् । अत्रोच्यते—इन्द्रियप्रसक्तिनिषेधस्य नैका न्ततः प्रतिषेधरूपता स्नातकत्रतमध्येऽस्य पाठात्तत्र च ‘ब्रतानीमानि धारयेत् इति व्रतशब्दाधिकारान्नव्-श्रवणाचेन्द्रियप्रसक्तिप्रतिषेधकः संकल्पो विधीयते । स च भावरूप इति पृथगुपादानम् ॥ ननु विहिताकरणातू प्रत्यवैतीति कुतो ऽवसितम् । न तावदन्निहोत्रादिचोदना पुरुषप्रवर्तनात्मिकाऽननुष्ठानस्य प्रत्यवाय हेतुतामाक्षिपति । विषयानुष्ठानस्य पुरुषार्थत्वावगतिमात्रपर्यवसायिनी हि सा तावन्मात्रेण प्रवृत्युपपत्तेर्न पुनरकरणस्य प्रत्यवायहेतुत्वमपि वक्ति । क्षीणशक्ति त्वादनुपपत्तेः । किंच । यैद्यनुपपत्युपशमेति प्रवृत्तिसिद्धयर्थमर्थान्तरं कल्प्यते तर्हि निषिञ्चद्यमानक्रियाजन्यप्रत्यवायपरिहारार्थतयैव तद्वर्जनस्य पुरुषार्थत्वसिद्धावपि फलान्तरै कल्प्येत । नचैतत्कस्यचिदपि संमतम् ॥ ननु यथा निषिद्धेष्वर्थ चादावगतप्रत्यवायपरिहार्थतयैव पुरुषार्थत्वं तथा विहितेष्वप्यर्थवादावगाता करणजन्यप्रत्यवायपरिहारार्थता कस्मान्न स्यात् ॥ मैवम् । नहि सर्वत्राझिहोत्रा दिषु तादृग्विधार्थवादाः सन्ति । नच ‘विहितस्याननुष्ठानान्नरः पतनमृच्छति ' इतीयं स्मृतिरेव वाक्यशेषस्थानीयेति चतुरस्रम् । नहेि वाक्यान्तरप्रमेिते कायें चाक्यान्तरेणार्थवादः संभवति । भवतु वा कथंचिदेकवाक्यतयार्थवादस्तथापि नाभावरूप विहिताकरणे कार्यान्तरं जनयितुं क्षमते । ननु ‘ज्वरे चैवातिसारे च लङ्कनं परमौषधम्’इत्यायुर्वेदवचनाद्भोजनाभावरूपं लङ्कनं ज्वरशान्ति जन यतीति यथावगम्यते तथात्रापि भवतु । मैवम् । यतो नात्रापि लङ्घनाज्वर शान्तिः किं तर्हि ज्वरनाशप्रतिबन्धकभोजनाभावे सति जठरानलपरिपाकॅजनि ताद्धातुसाम्यादिति मन्तव्यम् । तस्मात् “विहितस्याननुष्ठानान्नरः पतनमृच्छति' इति कथमस्याः स्मृतेर्गतिरिति वाच्यम् । उच्यते । अझिहोत्रादिविषयाधिका १ सचोभय ख. २ यद्यप्यनुप ख. ३ नाभावरूपविहिताकरणं ख. ४ परिपाकजननाद्धातु ख