पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३९९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रायश्चित्तप्रकरणम् ५ ] . मिताक्षरासहिता ति रासिद्धिरूपप्रत्यवायाभिप्रायेणेति न दोषः । ननु (१२॥७१॥७२)-‘वान्ता इयुल्कामुखः प्रेतो विप्रो धर्मात्स्वकाञ्च्युतः । अमेध्यकुणपाशी च क्षत्रिय कटपूतनः ॥ मैत्राक्षज्योतिकः प्रेतो वैश्यो भवति पूयभुक् । चैलाशकस्तु भवति शूद्रो धर्मात्स्वकाञ्युतः ॥' इति । एतानि विहिताकरणप्रत्यवायपराणि मनुवच नानि कथं घटन्ते । उच्यते । यथा वान्तमश्चत उल्कया वा दह्यमानमुखस्य दुःखं तथास्यापि विहितमकुर्वतः पुरुषस्य पुरुषार्थासिद्धेरित्यकरणनिन्दनमनुष्ठान प्ररोचनार्थमित्यविरोध । यद्वा प्राग्भवीयनिषिद्धाचरणाक्षिसविहितानुष्टान विरोधिरागालस्यादिजन्यवान्ताश्युल्कामुखप्रेतत्वादिरूपमि कारणतेति मन्तव्यम् । ननु पुंश्चलीवानरखरदृष्ट(श्वदृष्ट)मिथ्याभिशस्तादौ विहेि ताकरणादिनिमित्तानामन्थतमस्याप्यभावात्कथं प्रत्यवायिता, कथं च तदभावे प्राय श्चित्तविधानम् । उच्यते । अस्मादेव पापक्षयार्थप्रायश्चित्तविधानाजन्मान्तरा चरितनिषिद्धसेवादिजन्यपापापूर्व समाक्षिप्समेित्यभिशापादिकं तन्निमित्तप्राय श्चित्तापनोद्यमनेनानुष्ठितमिति कल्प्यते । पुरुषप्रयखनैरपेक्ष्येण कार्यरूपापोत्प त्यनुपपत्तेः । नच पुंश्चल्यादिगतप्रयलेन पुरुषान्तरे पापोत्पत्तिः, कर्तृसमवायित्व नियमाद्धर्माधर्मयोः, तस्माद्युतैव प्रायश्चित्ते निमित्तत्रयपरिगणना । तथाच मनुः (११॥४४)–“अकुर्वन्विहितं कर्म निन्दितं च समाचरन् । प्रसक्तश्चेन्द्रि यार्थेषु प्रायश्चित्तीयते नरः ॥' इति । नरग्रहणं प्रतिलोमजातानामपि प्रायश्चि ताधिकारप्राप्स्यर्थम् । तेषामप्यहिंसादिसाधारणधर्मव्यतिक्रमसंभवात् । यस्मा देवं निषिद्धाचरणादिना प्रत्यवैति तस्मात्तन कृतनिषिद्धसेवादिना पुरुषेण प्राय श्चित्तं कर्तव्यमिह लोके परत्र च विशुच्द्यर्थम् । प्रायश्चित्तशब्दश्चायं पापक्षयार्थे नैमित्तिके कर्मविशेषे रूढ । एवं प्रायश्चित्ते कृते अस्यान्तरात्मा शुद्धतया प्रसी दृति लोकश्च संव्यवहर्तु प्रसीदति । एवं वदतैतद्दर्शितम् । नैमितिकोऽयं प्रायश्चित्ताधिकारः, तत्र चार्थवाद्गतदुरितक्षयोऽपि जातेष्टिन्यायेन साध्यतया खीक्रियते । नच दुरितपरिजिहासुनानुष्ठीयत इत्येतावता कामाधिकारेंशङ्का कार्या । यस्मात् (मनुः-११॥५३)–“चरितव्यमतो नित्यं प्रायश्चित्तं विशुद्धये । निन्छैर्हि लक्षणैर्युक्ता जायन्तेऽनिष्कृतैनसः ॥' इत्यकरणे दोषश्रवणेनावश्यकत्वा वगमात् ॥ २१९ ॥ २२० ॥ प्रायश्चित्ताकरणे दोषमाह प्रायश्चित्तमकुर्वाणाः पापेषु निरता नराः । अपश्चात्तापिनः कष्टान्नरकान्यान्ति दारुणान् ।। २२१ ।। पापेषु शास्रार्थव्यतिक्रमजनितेषु प्रसक्ताः पुरुषाः अपश्चात्तापिनो मया दुष्कृतं कृतमित्येवमुद्वेगरहिताः प्रायश्चित्तमकुर्वाणाः दुःसहान्नरकान्प्रामुवन्ति ॥ २१ ॥ ३७३ न १ विप्रेो भवति विच्युतः ग. ङ.२ मित्रदेवताकत्वान्मैत्रः पायुस्तदेवाक्षं कर्मेन्द्रियं तत्र ज्योतिः र्यस्य. ३ प्रायश्चित्तनिमित्त ङ. ४ लोकश्चायं संव्यव ख. ५ धिकारशङ्कर ड. ६ दुःखदान् ङ