३७४ याज्ञवल्क्यस्मृतिः । [ प्रायश्चित्ताध्यायः नरकस्वरूपं विवृण्वन्नाह तामिस्र लोहशङ्गं च महानिरयशाल्मली । रौरवं कुड्झालं पूतिमृत्तिकं कालसूत्रकम् ।। २२२ ॥ संघातं लोहितोदं च सविषं संप्रपातनम् । महानरककाकोलं संजीवनमहापथम् ।। २२३ ।। अवीचिमन्धतामिस्र कुम्भीपाकं तथैव च । असिपत्रवनं चैव तपनं चैकविंशकम् ।। २२४ ।। महापातकजैधेरैरुपपातकजैस्तथा । अन्विता यान्त्यचरितप्रायश्चित्ता नराधमाः ।। २२५ ।। तामिस्रप्रभृतींस्तपनपर्यन्तानेकविंशतिनरकानन्बर्थसंज्ञाद्योतितावान्तरभेदान्म हापातकोपपातकजनितभयंकरदुरितैरन्विता अनाचरितप्रायश्चित्ताः पुरुषाधमाः प्रामुवन्ति ॥ २२२-२२५ ॥ उपात्तदुरितनाशार्थ प्रायश्चित्तमेित्युक्तं तत्र विशेषमाह प्रायश्चित्तैरपैलेयेनो यदज्ञानकृतं भवेत् । कामतो व्यवहार्यस्तु वचनादिह जायते ॥ २६ ॥ प्रायश्चित्तेर्वक्ष्यमाणलक्षणैरज्ञानाद्यदेनः पापं कृतं तदपैति गच्छति न कामतः कृतम् । किंतु तत्र प्रायश्चित्तविधायकवचनबलादिह लोके व्यवहार्यो जायते । अत्र च प्रायश्चित्तैरपैत्येनो यदज्ञानकृतमित्युपक्रमात्तत्प्रतियोगेितया ज्ञानत इति वक्तव्ये यत्कामत इत्युक्तं तत् ज्ञानकामयोस्तुल्यत्वप्रदर्शनार्थम् । तथाहेि विहितं यद्कामानां कामात्तद्विगुणं भवेत् ।’ तथा अबुद्धिपूर्वक्रियायामर्ध प्राय श्चित्तम् । तथा ‘लेच्छेनाधिगतः शूद्रस्त्वज्ञानातु कथंचन । कृच्छ्त्रयं प्रकुर्वीत ज्ञानातु द्विगुणं भवेत् ॥’ इंत्यादिभिर्वचनैज्ञनकामनयोस्तुल्यप्रायश्चित्तदर्शना तुल्यफलतैव । किंच । स्वतन्त्रप्रवृत्तिर्विषयज्ञानकामनाभ्यां नियता तयोरन्य तरौपायेऽपि तस्या असंभवादतः कामत इत्युक्तम् । ज्ञानाज्ञानत इत्युक्तऽपि कामः प्राप्तोत्यविनाभावात् । नच चैौरादिभिर्बलात्प्रवर्यमानस्य सत्यपि विषयज्ञाने कामनाभावान्नाविनाभाव इति वाच्यम् । यतोऽत्र विद्यमानस्यापि ज्ञानस्य प्रवृत्तिहेतुत्वाभावेनासत्समत्वम् । यत्तु शुष्केऽपि पिपतिषोभ्रौन्त्या कर्दमपतनं तत्रापि वास्तवज्ञानाभावात्तद्विषयकामनायाश्चाभाव एव । एवमज्ञानाकामनयो रप्यव्यभिचार एव ॥ ननु प्रायश्चितैरपैत्येन इति न युक्तम् । फलविनाश्यत्वा १ धिगता शूद्रा त्वशानातु ख. २ ज्ञानात्तद्विगुणं गज्ञाने द्विगुणं ड. ३ इत्याद्यपूर्व . तु वचनैः ङ. ४ अन्यतराभावेऽपि ग. ५ विद्यमानस्याप्रवृत्ति ड.
पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४००
एतत् पृष्ठम् अपरिष्कृतम् अस्ति