प्रायश्चित्तप्रकरणम् ५ ] मिताक्षरासहिता । ३७५ त्कर्मणः । मैवम् । यथा पापोत्पत्तिः ३शास्रधगम्या तथा तत्परिक्षयोऽपीति नात्र प्रमाणान्तरं क्रमते । अतएव गौतमेन पूर्वोत्तरपक्षभङ्गया अयमर्थो दर्शितः । तत्र प्रायश्चित्तं कुर्यान्न कुर्यादिति मीमांसन्ते । न कुर्यादित्याहुर्नहि कर्म क्षीयते इति । कुर्यादित्यपरे । ‘पुनःस्तोमेनेष्ठा पुनःसवनमायान्तीति विज्ञायते । ब्रात्यस्तोमेनेष्टा तैरति सर्व पाप्मानं तरति भ्रणहल्याँ योऽश्वमेधेन यजते’ इति पुनःसवनमायान्ति इति सवनसंपाद्यज्योतिष्टोमादिद्विजातिकर्मणि योग्यो भवतीत्यर्थः । नचेदमर्थवाद मात्रम् । अधिकारिविशेषणाकाङ्गायां रात्रिसत्रन्यायेनार्थवादिकफलस्यैव कल्प नाया न्याय्यत्वात्, अतो युतं प्रायश्चित्तैरपैत्येन इति । ननु कामकृते प्रायश्चि ताभावात्कथं व्यवहार्यत्वं तदभावश्च ‘अनभिसंधिकृतेऽपराधे प्रायश्चित्तम्’ इति वसिष्ठवचनात् 'इयं विशुद्धिरुदिता प्रमाप्याकामतो द्विजम् । कामतो ब्राह्मण वधे निष्कृतिर्न विधीयते ।' इति (११॥८९) मनुवचनाचावगम्यते । नैतत् ।
- यः कामतो महापापं नरः कुर्यात्कथंचन । न तस्य निष्कृतिद्वैष्टा भृग्वद्भिपतनादृते ॥
इति । तथा–“विहितं यद्वकामानां कामात्तद्विगुणं भवेत्’ इति च कामकृतेऽपि प्रायश्चित्तदर्शनात् । यत्त वसिष्ठवचनं तस्याप्यकामकृतेऽपराधे प्रायश्चित्तं शुद्धिकरमित्यभिप्रायो न पुनः कामकृते प्रायश्चित्ताभाव इति । यत्तु मनुवचर्न इयं विशुद्धिरुदिता' इत्यादि, तदपीयमिति सर्वनामपरामृष्टद्वादशवार्षिकादित्रत चवर्याया एव । ‘कामतो ब्राह्मणवधे निष्कृतिर्न विधीयते’ इत्यनेन प्रतिषेधो न पुनः प्रायश्चित्तमात्रस्य । मरणान्तिकादेः प्रायश्चित्तस्य दर्शितत्वात् । ननु यदि कामकृतेऽपि प्रायश्चित्तमस्ति तर्हि पापक्षयोऽपि कस्मान्न स्यादविशेषाद्यदि पाप क्षयोऽपि नास्तिं तर्हि व्यवहार्यतापि कथं भवति ॥ उच्यते । उभयत्र प्रायश्चित्ता विशेषेऽपि फलविशेषः शास्रतोऽवगम्यते । अज्ञातकृते तु सर्वत्र पापक्षयः । यत्र तु ‘ब्रह्महेसुरापगुरुतल्पगमातृपितृयोनिसंबैद्धांगस्तेनास्तिकनिन्दुितकर्माभ्या सिपतितात्याग्यपतितल्यागिनः पतिताः पातकसंयोजकाश्च' इति गौतमोक्तमहा पातकादौ व्यवहार्यत्वं निषिद्धे, तस्मिन्पतनीये कर्मणि कामतः कृते व्यवहार्यत्व मात्रै न पापक्षय इति । नच पापक्षयाभावे व्यवहार्यत्वमनुपपन्नम् । द्वे हेि पापस्य शक्ती नरकोत्पादिका व्यवहारनिरोधिका चेति । तत्रेतरशत्यविनाशेऽपि व्यवहारनिरोधिकायाः शक्तर्विनाशो नानुपपन्नस्तस्मात्पापानपगमेऽपि व्यवहार्यत्वं नानुपपन्नम् । यत्तु मनुवचनम् (११॥४५)-‘अकामतः कृते पापे प्रायश्चित्तं विदुर्बुधाः । कामकारकृतेऽप्याहुरेके श्रुतिनिदर्शनात् ॥’ इति तदपि कामकृते प्रायश्चित्तप्राप्यर्थ, न पुनः पापैक्षयप्रतिपादनपरम् । अपतनीये पुनः काम कृतेऽपि प्रायश्चित्तेन पापक्षयो भवत्येव । ( ११॥४६)-‘अकामतः कृतं पापं वेदाभ्यासेन शुद्धयति । कामतस्तु कृतं मोहात्प्रायश्चितैः पृथग्विधैः ॥’ इति मनुस्मरणात् । पतनीयेऽपि कर्मणि कामकृते मरणान्तिकप्रायश्चित्तेषु कल्मष १ नेष्टा ब्रह्मचर्यं चरेदुपनयनत इति सर्व पाप्मानं ख. २ ब्रह्महा सुरापो गुरुतल्पगो मातृ पितृ ख. ३ संबन्धावगम ड. ४ पापक्षयंप्रति प्रतिपादन