पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४०६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८० याज्ञवल्क्यस्मृतिः। [प्रायश्चित्ताध्यायः पातकस्यतरस्य च तुल्यत्वस्यायुक्तत्वाच्च । एवंच सति याज्ञवल्क्येन ब्रह्महत्या समत्वेनोक्तानामपि ब्रह्मोज्झत्ववेदनिन्दासुह्यद्वधानां मनुना यत्सुरापानसाम्यम् । ( ११।५६)–‘ब्रह्मोज्झता वेदनिन्दा कौटसाक्ष्यं सुहृद्वधः । गर्हितान्नाज्ययो र्जग्धिः सुरापानसम्मानि षट् ॥' इत्युक्तं तत्प्रायश्चित्तविकल्पार्थम् । एवमन्ये ष्वपि वचनेषु विरोधः परिहर्तव्य । यत्तु वसिष्ठन -‘गुरोरलीकनिर्बन्धे कृच्छू द्वादशरात्रकं चरित्वा सचैलः स्लातो गुरुप्रसादात् पूतो भवति' इति लघुः प्रायश्चित्तमुक्तं तद्मतिपूर्व सकृदनुष्ठाने च वेदितव्यम् ॥ २३१ ॥ पितुः खसारं मातुश्च मातुलानीं शुषामपि । मातुः सपतीं भगिनीमाचार्यतनयां तथा ॥ २३२ ॥ आचार्यपलीं खसुतां गच्छंस्तु गुरुतल्पगः । लिङ्गं छित्वा वधैस्तस्य सकामायाः स्त्रिया अपि ।। २३३ ।। पितृष्वस्रादयः प्रसिद्धास्ताः गच्छन् गुरुतल्पगस्तस्य लिङ्गं छित्त्वा राज्ञा वधः कर्तव्यो दैण्डार्थ प्रायश्चित्तं च तदेव । चशब्दाद्राज्ञीप्रब्रजितादीनां ग्रहणम् । यथाह नारदः-'माता मातृष्वसा श्वश्रूमर्मातुलानी पितृष्वसा । पितृव्यसखि शिष्यस्त्री भगिनी तत्सखी लुषा। । दुहिताचार्यभार्या च सगोत्रा शरणागता। राज्ञो प्रत्रजिता धात्री साध्वी वणोत्तमा च या ॥ आसामन्यतमां गच्छन्गुरुतल्पग उच्यते । शिश्क्षस्योत्कर्तनात्तत्र नान्यो दण्डो विधीयते ।।' इति । राज्ञी राज्यस्य कर्तुभय, न क्षत्रिययैव । तद्भमने प्रायश्चित्तान्तरोपदेशात् । धात्री मातृव्यति रिक्ता स्तन्यदानादिना पोषयित्री । साध्वी ब्रतचारिणी । वणेोत्तमा ब्राह्मणी अत्र मातृग्रहणं दृष्टान्तार्थम् । अयं च लिङ्गच्छेद्वधात्मको दण्डो ब्राह्मणव्यति रिक्तस्य ।–“न जातु ब्राह्मणं हन्यात्सर्वपापेष्ववस्थितम्’ इति तस्य वधनिषेधातू वधयैव प्रायश्चित्तरूपत्वात् । अस्य च विषयं गुरुतल्पप्रायश्चित्तप्रकरणे प्रपञ्चयेि ष्यामः । अत्र सुलुषाभगिन्योः पूर्वश्लोकेन गुरुतल्पसमीकृतयोः पुनहणं प्रायश्चि चतवेिकल्पार्थम् । यदा पुनरेताः स्त्रियः सकामाः सत्य एतानेव पुरुषान्वशीकृत्यो पभुञ्जन्ते तदा तासामपि पुरुषवद्धध एव दण्डः प्रायश्चित्तं च । एतानि गुर्वधि क्षेपादितनयागमपर्यन्तानि म हापातकातिदेशविषयाणि सद्यःपतनहेतुत्वात्पात कान्युच्यन्ते । यथाह यम –‘मातृष्वसा मातृसखी दुहिता च पितृष्वसा । मातुलानी स्वसा श्वश्रूर्गत्वा सद्यः पतेन्नरः ॥’ इति गौतमेन पुनरन्येषामपि पातकत्वमुत्कम् । मातृपितृयोनिसंबद्धाङ्गस्तेननास्तिकनिन्दितकर्माभ्यासिपतिता त्याग्यपतितत्यागिनः पतिताः पातकसंयोजकाश्चेति । तेषां च महापातकोपपात क्रमध्यपाठान्महापातकाश्यूनत्वमुपपा तकाच्च गुरुत्वमवगम्यते । तदुक्तम्-‘महा प्रातकतुल्यानि पापान्युक्तानि यानि तु । तानि पातकसंज्ञानि तन्यूनमुपपात १ गर्हितानाद्ययोः इति पाठः. २ वधस्तत्र ख. ३ दण्डाथैः ख