३८२ याज्ञवल्क्यस्मृतिः । [प्रायश्चित्ताध्यायः वश्यकत्ववचनान्नित्यश्रुतयोऽपि साधिकारित्वाविशेषादाधानस्य प्रयोजिका इति स्मृतिकाराणामभिप्रायो लक्ष्यत इत्यदोषः । तथा अपण्यस्य लवणादेर्विक्रयः । सहोदरस्य ज्येष्ठस्य तिष्ठतः कनीयसो भ्रातुर्दारान्निसंयोगः परिवेदनम् । पणपूर्वा पणपूवाध्यापनम् परदारसवन गुरुदारतत्समः व्यतिरेकेण । पारिवित्यं कनीयसि कृतविवाहे ज्येष्ठस्य विवाहराहित्यम् । वाधुष्यं प्रतिषिद्धवृद्धयुपजीवनैम् । लवणक्रिया लवणस्योत्पादानम् । स्त्रिया वधः अब्रा ह्मण्या अप्यात्रेयीव्यतिरेकेण । शूद्वधः । अदीक्षितविट्रक्षत्रियवधः । निन्दिता थोपजीवनमराजस्थापितार्थोपजीवनम् । नास्तिक्यं नास्ति परलोक इत्याद्य भिनिवेशः । बतलोपो ब्रह्मचारिणः स्त्रीप्रसङ्गः । सुतानामपत्यानां विक्रयः । धान्यं ब्रीह्यादि, कुप्यमसारद्रव्यं त्रपुसीसादि, पशवो गावादयस्तेषामपहर णम् । ‘गोवधो ब्रात्यता स्तेय'मित्यनेन स्तेयग्रहणेनैव सिद्धे पुनर्धान्यकुप्यादिते यग्रहणं नित्यार्थम् । अतो धान्यादिव्यतिरिक्तद्रव्यस्तेये नावश्यमेतदेव प्रायश्चित्त मपितु ततो न्यूनमपि भवत्येव । एतेन बान्धवत्यागग्रहणेनैव सिद्धे पुनः पित्रादिः त्यागग्रहणं व्याख्यातम् । अयाज्यानां जातिकर्मदुष्टानां शूद्भवात्यादीनां याजनम् । पितृमातृसुतानामपतितानां त्यागो गृहान्निण्कासनम् । तडागस्यारामस्य चोद्यानो पवनादेर्विक्रय । कन्याया संदूषणमङ्गुल्यादिना योनिविदारणं नतु भोगः । तस्य सखिभार्याकुमारीष्विति गुरुतल्पगसमत्वस्योक्तत्वात् । परिविन्दकयाजर्न तस्य च कन्याप्रदानम् । कौटिल्यं गुरोरन्यत्र । गुरुचिषयस्य तु कौटिल्यस्य सुरा पानसमत्वमुक्तम् । पुनर्वतलोपग्रहणमशिष्टाप्रतिषिद्धेष्वपि श्रीहरिचरणकमल प्रेक्षणातू प्राकू ताम्बूलादिकं न भक्षयामीत्येवंरूपेषु प्रास्यर्थ नतु स्नातकवत प्राप्यर्थम् । तत्र ( १ १।२०३)–“स्नातकबतलोपे च प्रायश्चित्तमभोजनम् इति सनुना लघुप्रायश्चित्तस्य प्रतिपादितत्वात् । तथात्मार्थे च पाकलक्षणक्रिया ( मनुः ३॥११८)-केवलं भुङ्के यः पचत्यात्मकारणातू
- अर्ध स
इति तस्यैव प्रतिषिद्वत्वात् । क्रियामात्रविषयत्वे तु प्रतिषेधकल्पनाया गौरवं स्यात् । मद्यपायाः स्त्रियाः जायाया अपि निषेवणमुपभोगः । स्वाध्यायत्यागो व्याख्यातः । अशीनां च श्रौतस्मार्तानां त्यागः । सुतत्यागः संस्काराद्यकरणम् । बान्धवानां पितृव्यमातुलादीनां त्यागः सति अपरिरक्षणम् । विभवे पाकादि दृष्टप्रयोजनसिद्धखर्थमाद्वैदुमच्छेदो न त्वाहवनीयपरिरक्षणार्थमपि । स्त्रिया हिंसया औषधेन च वर्तनं जीवनं स्त्रीहिंसौषधजीवनम् । तत्र स्त्रीजीवनं नाम भार्या पण्यभावेन प्रयोज्य तलुब्धोपजीवनम्, खीधनेनोपजीवनं वा । हिंसया जीवनं प्राणिवधेन जीवनम् । औषधजीवनं वशीकॅरणादिना । हिंस्रयग्रस्य तिलेक्षुपीडाकारस्य प्रवर्तनम् । व्यसनानि मृगयादीन्यैष्टादश । आत्मविक्रयो १ साधिकारत्वाविशेषां ङ. २ वृत्युपजीवित्वम् ड. ३ प्रतिषेधे ड. ४ करणेन ङ. ५ मृगया दीन्यष्टादश व्यसनानि मनुस्मृतौ (७श्क्षेो. ) ‘मृगयाऽक्षेो दिवा(स्वम:) परिवादः स्रियी ४७-५३ मद्रः । तौर्यत्रिकं वृथाट्या च कामजो दशको गणः ॥ पैशुन्यं साहसं द्रोह ईष्याँ णम् । वाग्दण्डजं च पारुष्यं क्रोधजोऽपि गणोऽष्टक । द्वयोरप्येतयोर्मुलं यं. सर्वे