प्रायश्चित्तप्रकरणम् ५] मिताक्षरासहिता । ३८९ लघुकल्पानां बाधो मा प्रसाङ्गीदिति व्यवस्था कल्प्यत इति । विकल्पसमुच्चया ङ्गाङ्गिभावानामन्यतमाश्रयणेनापि बाधस्य सुपरिहरत्वात् । अत्रोच्यते । न तावद्वादशवार्षिकसेतुदर्शनादीनां विषमकल्पानां विकल्पोऽवकल्प्यते । विकल्पा श्रयणे गुरुकल्पानामनुष्ठानासंभवेनानर्थक्यप्रसङ्गात् । नच षोडशिग्रहणा ग्रहणवद्विषमयोरपि विकल्पोपपत्तिरिति वाच्यम् । यतस्तत्रापि सति संभवे ग्रहण मेवेति युक्तं कल्पयितुम् । यद्वा षोडशिग्रहणानुगृहीतेनातिरात्रेण क्षित्रं स्वर्गादि सिद्धिरतिशयितस्य वा स्वर्गस्येति कल्पनीयम् । इतरथा ग्रहणवेिधेरानर्थक्य प्रसङ्गात् । नापि समुच्चयः । उपदेशातिदेशप्राप्तिमन्तरेण समुच्चयो न संभवति । उपदेशावगतनैरपेक्ष्यस्य बाधप्रसङ्गातू । नचाङ्गाङ्गिभावः । श्रुत्यादिविनियोजका नामभावात् । श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानानेि विनियोजकानि । अतः परस्परोपमर्दपरिहारार्थ विषयव्यवस्थाकल्पनैवोचिता । सा च जातिशक्ति गुणाद्यपेक्षया कल्पनीया ।–“जातिशक्तिगुणापेक्षं सकृडुद्धिकृतं तथा । अनु बन्धादिविज्ञाय प्रायश्चित्तं प्रकल्पयेत् ॥' इति देवलस्मरणात् ॥ २४३ ॥ पूर्वोक्तस्य ब्रह्महत्यादिप्रायश्चित्तस्य नैमित्तिकसर्मास्यवधिमाह ब्राह्मणस्य परित्राणादवां द्वादशकस्य च । तथाश्वमेधावभृथरुलानाद्वा शुद्धिमापुयात् ॥ २४ ॥ यश्चीरव्याघ्रादिभिव्यपाद्यमानस्य ब्राह्मणस्यैकस्याप्यात्मप्राणानन्तरे प्राणत्राणं करोति गवां द्वादशैकस्यासावसंपूर्णेऽपि द्वादशवार्षिके शुद्धयेत् । यद्यपि प्राणत्राणे प्रवृत्तस्तदकृत्वैव म्रियते तथापि शुद्धयत्येव । अतएव मनुना (११॥७९)-‘ब्राह्मणार्थे गवार्थे वा सद्यः प्राणान्परित्यजन् । मुच्यते ब्रह्महत्याया गोसा गोब्रह्मणस्य च ।।' इति । ब्राह्मणरक्षणं तदर्थ मरणं च पृथगुपात्तम् । तथा परकीयाश्वमेधावभृथाख्यकमङ्गभूतस्नानसमये स्वयमपि स्नात्वा ब्रह्महत्याया शुद्धिं प्रामुयात् । स्रानं च स्वकल्मषं विख्याप्य कुर्यात् । तथाच मनु (११॥८२)-‘शिष्टा वा भूमिदेवानां नरदेवसमागमे । स्वमेनोऽवभृथे खात्वा हयमेधे विमुच्यते ।।' इंति । भूमिदेवा ब्राह्मणा ऋत्विजसेतषां नरदेवेन यजमानेन राज्ञा समवाये स्वीयमेनः शिष्टा विख्याप्याऽश्वमेधावभृथे स्नात्वा शुद्धयति यदि तैरनुज्ञातो भवति ।-*अश्वमेधावभृथं गत्वा तत्रानुज्ञातः स्नातः सद्यः पूतो भवति ' इति शङ्खस्मरणात् ॥ अश्वमेधावभृथग्रहणमग्धुिन्मध्यानाँ पञ्चदशरात्रादिक्र त्वन्तराणामझिष्टत्समासिकानां वा सर्वमेधादीनामुपलक्षणम् । ‘अश्वमेधावभृथे वान्यज्ञेऽप्यद्भिष्टुदन्तश्चत्’ इति गौतमस्मरणात् । अयं च प्रक्रान्तद्वादशवार्षि कस्य कथंचिब्राह्मणप्राणत्राणादिकं कुर्वतो व्रतसमाप्यवधेिरुच्यते । यथा सारस्वते सत्रे एाक्ष प्रस्रवणं प्राप्योत्थानमृषभैकशतानां वा गवां सहस्रमभावे सर्वस्खैदानं गृहपतिमरणे चेति । । तथाच शङ्खः न पुनः स्वतन्त्रं प्रायश्चित्तान्तरम् १ समस्यावधि ङ. २ कस्य वासंपूर्णोऽपि ख. ३ खाने च ख. ४ विशुद्धयति ङ. ५ लात्वा शुद्धयेत् ख. ६ सर्वस्वजान्यां, सर्वस्वयाज्याव्यां -ड.
पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४१५
एतत् पृष्ठम् अपरिष्कृतम् अस्ति