पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४१६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३९० याज्ञवल्क्य वल्क्यस्मृतिः । [ प्रायश्चित्ताध्यायः द्वादशे वर्षे शुद्धिं प्राश्नोत्यन्तरा वा ब्राह्मणं मोचयित्वा, गवां द्वादशानां परित्राणात्सद्य एवाश्वमेधावभृथस्रानाद्वा पूतो भवति’ इति अतएव मनुना (११।७८)-‘कृतवापनो वा निवसेत्’ इति द्वादशवार्षिकस्य गुणविधिं प्रक्रम्य (११।७९)-‘ब्राह्मणार्थे गवार्थे वा सद्यः प्राणान्परित्यजन् । मुच्यते ब्रह्म . हत्याया गोप्ता गोब्रह्मणस्य च ॥' इत्यादिना मध्ये ब्राह्मणत्राणादिकमभिधाय ( ११॥८१ )–‘एवं दृढत्रतो नित्यं ब्रह्मचारी समाहितः । समासे द्वादशे वर्षे ब्रह्महत्यां व्यपोहति ॥’ इति द्वादशवार्षिकमेवोपसंहृतम् । ननु ब्रह्महत्यायाः शुद्धिमाप्नुयादिति ब्राह्मणत्राणादीनां द्वादशवार्षिकेण सहैकफलत्वावगमात्स्वातम्रय मेव युक्तं न पुनरङ्गत्वम् । किंच प्रधानविरोधित्वादपि नाङ्गत्वम् । प्रधानानु ग्राहकं ह्यङ्गः भवति । नच प्रारब्धद्वादशवार्षिकस्येदं विधानम् । येन तत्कार्ये विधानं गम्यते । यथा ‘सत्रायावगूर्य विश्वजिता यजेत’ इति सत्रप्रयोगप्रवृत्तस्य तत्परिसमापनाक्षमस्य विश्वजिद्विधानमतोऽपि स्वातन्त्र्यमेव युक्तम् । यथानि प्रवेशलक्ष्यभावादीनाम् । नच तेषामपि द्वादशवार्षिकैोपक्रमोपसंहारमध्यपठि तत्वेन तदङ्गत्वमिति शङ्कनीयम् । यतः सत्यपि मध्यपाठे निज्ञतप्रयोजनत्वेन प्रयोजनाकाङ्गविरहान्न परस्परमङ्गाङ्गित्वं युक्तम् । यथा सामिधेनीप्रकरणमध्य वर्तिनां निर्वित्पदानामन्निसमिन्धनप्रकाशत्वेन सामिधेनीभिः सहैककार्याणां न सामिधेन्यङ्गत्वम् । नचैकान्ततोऽग्निप्रवेशादीनां द्वादशवार्षिकमध्ये पाठ वसिष्टगौतमादिभिरेषां द्वादशवार्षिकप्रक्रमात्प्रागेव पठितत्वात् । इदमेव स्वातच्यं प्रकटयितुं मनुना ( ११।७३)-‘लक्ष्यं शस्त्रभृतां वा स्यात्’ ‘प्राये दात्मानमग्नौ वा’ इति प्रतिवाक्यं वाशब्दः पठितः । तथा प्रतिप्रायश्चित्तमेवोप संहृतम् (मनुः ११॥८६) –“अतोऽन्यतममास्थाय विधिं विप्रः समाहितः । ब्रह्महत्याकृतं पापं व्यपोहत्यात्मशुद्धये इत अतोऽग्निप्रवेशादीनां स्वात अयमेव युक्तम् । अतश्च ब्राह्मणत्राणादेरप्येकफलत्वान्नाङ्गत्वमिति । उच्यते । परिहृतमेतत् ‘अन्तरा ब्राह्मणं मोचयित्वे'त्यादिना शङ्कवचनेनाङ्गत्वावगमात् । अङ्गयैव सतः प्रधानद्वारेण फलसंबन्धः । नच प्रधानविरोधः यतो ब्राह्मणत्रा णावधिकस्यैव ब्रतानुष्ठानस्य फलसाधनत्वं विधीयत इति न विरोधः ॥ २४४ ॥ दीर्घतीव्रामयग्रस्तं ब्राह्मणं गामथापि वा । दृष्टा पथि निरातङ्गं कृत्वा तु ब्रह्महा शुचिः ।। २४५ ॥ किंच । दीधेण बहुकालव्यापिना तीत्रेण दुःसहेनामयेन कुष्ठादिव्याधिना ग्रस्तं पीडितं ब्राह्मणं गां वा तथाविधां पथि दृष्टा निरातङ्क नीरुजं कृत्वा ब्रह्महा शुचिर्भवति । ननु ब्राह्मणस्य परित्राणादित्यत्र यदुक्तं ब्राह्मणरक्षणं तदेव किमर्थ पुनरुच्यते ब्राह्मणं गामथापि वेति । सत्यमेवम् । किंत्वात्मप्राणपरित्यागेनाध स्तनवाक्ये ब्राह्मणरक्षणमुक्तमधुना पुनरौषधदानादिनेति विशेष । अमुनैवा १ भोजयित्वा ङ. २ वर्तिनामन्निविदामन्नि ख