पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४१७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रायश्चित्तप्रकरणम् ५] मिताक्षरासहिता । भिप्रायेणोक्तं मनुना (११॥८०)-‘विप्रस्य तन्निमित्ते वा प्राणलाभे विमुच्यते ३९१ आनीय विप्रसर्वस्वं हृतं घातित एव वा । तन्निमित्तं क्षतः शखैजवन्नपि विशुद्धयति ॥ २४६ ।। किंच । विप्रस्यापहृतसर्वस्वतयावसीदत संबन्धि द्रव्यं भूहिरण्यादिकं चौरै र्हतं साकल्येनानीय रक्षणं यः करोति स विशुद्धयति । आनयने प्रवृत्तः स्वयं चैौरैघौतितो वा, यदि वा तन्निमित्तं ब्राह्मणसर्वस्वानयनार्थ तत्र युध्यमानः शखैः क्षतो मृतकल्पो जीवन्नपि विशुद्धयति । शखैरिति बहुवचनं क्षतबहुत्वप्रात्यर्थम् । अतएव मनुना ( ११॥८० )-*ञ्यवरं प्रतिरोद्धा वा सर्वस्वमवजित्य वा' इति ञ्यवरग्रहणं कृतम् । एतस्य श्लोकद्वयोक्तकल्पपञ्चक्रस्य ब्राह्मणरक्षणरूपकत्वेनान्तरा वा ब्राह्मणं मोचयित्वेत्यनेन शङ्कवचनेन क्रोडीकृतत्वात् द्वादशवार्षिकसमास्यव धित्वेनेतरग्रहणे विनियोगान्न स्वातन्त्र्यम् ॥ २४६ ॥ प्रायश्चित्तान्तरमाहः लोमभ्यः खाहेत्येवं हि लोमप्रभृति वै तनुम् । मञ्जान्तां जुहुयाद्वापि मत्रैरेभिर्यथाक्रमम् ।। २४७ ।। लोमभ्यः स्वाहेत्येवमादिभिर्मत्रैलोमप्रभृतिमजान्तां ततुं जुहुयात् । इति शब्दः करणत्वनिर्देशार्थः । एवंशब्दः प्रकारसूचनार्थ । हिशब्दः स्मृत्यन्तर प्रसिद्धत्वगादीनां प्रभृतिशब्देनाक्षिप्यमाणानां द्योतनार्थः । ततश्च लोमादीनि होमद्रव्याणि चतुथ्र्या निर्दिश्यन्ते स्वाहाकारं पठित्वा तैर्मत्रैर्जुहुयात् । ते च हुयमानद्रव्याणां लोमत्वग्लोहितमांसमेदःस्राय्वस्थिमज्जानामष्टसंख्यत्वादृष्टी मभ्रा भवन्ति । तथाच वसिष्ठः–‘ब्रह्महॉग्निमुपसमाधाय जुहुयाच्छोमानि मृत्योर्जुहोमि लोमभिमृत्युं वाशय इति प्रथमाम् । १ । त्वचं मृत्योर्जुहोमि त्वचा मृत्युं वाशय इति द्वितीयाम् । २ । लोहितं मृत्योर्जुहोमि लोहितेन मृत्यु वाशय इति तृतीयाम् । ३ । मांसानि मृत्योर्जुहोमि मांसैर्मेत्यु वाशय इति चतुर्थम् । ४ । मेदो मृत्योर्जुहोमि मेदसा मृत्युं वाशय इति पञ्चमीम् । ५ । स्रायूनि मृत्योर्जुहोमि स्रायुभिर्तृत्युं वाशय इति षष्टीन् । ६ । अस्थीनि मृत्योर्जुहोमेि अस्थिभिर्तृत्युं वाशय इति सप्तमीम् । ७ । मज्जां मृत्योर्जुहोमेि मज्जाभिर्तृत्यु वाशय इत्यष्टमीम् । ८ ॥' इति । अत्रच लोमप्रभृति तनु जुहुयादिति लोमा दीनां होमद्रव्यत्वावगमाछोमभ्यः स्वाहेति सत्यपि चतुर्थीनिर्देशे लोमादीनां नं देवतात्वं कल्प्यते । द्रव्यप्रकाशनेनैव मत्राणां होमसाधनत्वोपपत्तेः । किंतु लोमभिर्तृत्युं वाशय इत्यादिवसिष्ठमत्रपर्यालोचनया मृत्योरेव हविःसंबन्धावः गमाद्देवतात्वं कल्प्यते । अतश्च लोमादीनि सामथ्र्यात्स्वधितिनावदाय मृत्यूद्देशे १ त्रिवारं क. २ धूणहान्निमिति पाठान्तरम् या० ३६