पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४१९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रायश्चित्तप्रकरणम् ५ ] मिताक्षरासहिता । विकल्पन्ते । नच स्वर्जिताद्यर्थमाधानं प्रथमयज्ञानुष्ठार्न वा कार्यम् । पतितस्य द्विजातिकर्मस्वनधिकारात् । नच संध्योपासनवदविरोध इति युक्तम् । आधा नादेरुत्तरक्रतुशेषत्वाभावात् । ते च दक्षिणान्यूनाधिक्याश्रयणेन द्वादशवार्षिका द्यहेषु साक्षाद्धत्रादिषु व्यवस्थापनीया * ॥ २४८ ॥ अरण्ये नियतो जावा त्रिवै वेदस्य संहिताम् । शुद्धयेत वा मिताशित्वात्प्रतिस्रोतः सरस्वतीम् ।। २४९ ।। किंच । अरण्ये निर्जनप्रदेशे नियतो नियताहारः ( ११।७७)-‘जपेद्वा नियताहारः’ इति मनुस्मरणात् । त्रिवारं मत्रब्राह्मणात्मकं वेदं जपित्वा शुद्धयति । संहिताग्रहणं पदक्रमव्युदासार्थम् । यद्वा मिताशनो भूत्वा प्लाक्षात्प्रख वणादारभ्य पश्चिमोदधेः प्रतिस्रोतः स्रोतःस्रोतः प्रति सरस्वतीं इत्वा गत्वा विशुद्धयति । अशनं च हविष्येण कार्यम् ( ११।७७)-हविष्यभुग्वानुचरे त्प्रतिस्रोतःसरस्वतीम्’ इति मनुस्मरणात् । अयं च वेदजपो विदुषो हन्तु निर्धनस्यात्यन्तगुणवतो निर्गुणव्यापादने प्रमादकृते द्रष्टव्य । सरस्वतीगमनं तु तादृश एव विषये विद्याविरहिणो द्रष्टव्यम् । निमेित्तिनश्च–‘तिरस्कृतो यदा विप्रो निर्गुणो म्रियते यदि’ इति सुमन्तुवचनस्य दर्शितत्वात् । यत्पुनर्मनु वचनम् ( ११॥७५ )–‘जपित्वान्यतमं वेदं योजनानां शतं ब्रजेत्’ इतिः तदप्यरण्ये नियतो जस्वेत्येतस्यैव विषयेऽशक्तस्य द्रष्टव्यम् ॥ २४९ ॥ पात्रे धनं वा पर्याप्त दत्त्वा शुद्धिमवाशुयात् । आदातुश्च विशुद्धयर्थमिष्टिवैश्वानरी स्मृता ।। २५० ॥ ३९३ किंच । न विद्यया केवलयेत्याद्युक्तलक्षणे पात्रे गोभूहिरण्यादिकं जीवन पर्यासं समर्थ धनं दत्त्वा शुद्धिमवामुयात् । तद्धनं यः प्रतिगृह्णाति तस्य वैश्वानर दैवत्येष्टिः शुद्धयर्थ कर्तव्या । एतच्चाहिताग्निविषयम् । अनाहिताझेस्तु तदैवत्य श्रुर्भवति । य एवाहिताझेर्धर्मः स एवौपासनिकस्येति गृह्यकारवचनात् । वाशब्दात्सर्वस्वं सपरिच्छदं वा गृहं दद्यात् । यथाह मनुः ( ११।७६)

  • सर्वस्वं वा वेदविदे ब्राह्मणायोपपादयेत् । धनं वा जीवनायालं गृहं वा सपरि

च्छदम् ॥' इति । इदं च पात्रे धनदानं निर्गुणस्य धनवतो हन्तुर्निर्गुणव्यापादने द्रष्टव्यम् । तत्रैव विषये अविद्यमानान्वयस्य सर्वस्वदानं सान्वयस्य तु सोपस्कर गृहदानमिति व्यवस्था । यदपि पराशरेणोक्तम्—‘चातुर्विद्योपपन्नस्तु विधि वब्रह्मघातके । समुद्रसेतुगमनं प्रायश्चित्तं विनिर्दिशेत् ॥ सेतुबन्धपथे भिक्षां चातुर्वण्यत्समाहरेत् । वर्जयित्वा विकर्मस्थाञ्छत्रोपानद्विवर्जितः ॥ अहं दुष्कृत कर्मा वै महापातककारकः । गृहद्वारेषु तिष्ठामि भिक्षार्थी ब्रह्मघातकः ॥ गोकुलेषु च गोष्ठषु ग्रामेषु नगरेषु च । तपोवनेषु तीर्थेषु नदीप्रस्रवणेषु च ॥ एतेषु ख्याप १ द्वादशवार्षिकषङ्कार्षिकत्रैवार्षिकादिषु साक्षाद्धत्रादिषु ङ