पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२
[ आचाराध्यायः
याज्ञवल्क्यस्मृतिः ।

मेदसा तर्पयेद्देवानथर्वाङ्गिरसः पठन् ।
पेितूंश्च मधुसर्पिभ्र्यामन्वहं शक्तितो द्विजः ॥ ४४ ॥
वाकोवाक्यं पुराणं च नाराशंसीश्च गाथिकाः ।
इतिहासांस्तथा विद्याः शक्तयाधीते हि योऽन्वहम् ।। ४५ ।।
मांसक्षीरौदनमधुतर्पणं स दिवौकसाम् ।
करोति तृतिं कुर्याच पितृणां मधुसर्पिषा ।। ४६ ।।
ते तृप्तास्तर्पयन्त्येनं सर्वकामफलैः शुभैः ।

यः पुनः शक्तितोऽन्वहं अथवाङ्गिरसोऽधीते स देवान्मेदसा पितूंश्च मधुस र्पिभ्र्या तर्पयति । यस्तु वाकोवाक्यं प्रश्नोत्तररूपं वेदवाक्यम् । पुराणं ब्राह्मादि । कारान्मानवादिधर्मशास्त्रम् । नाराशंसीश्च यज्ञगाथेन्द्रगाथाद्याः । इतिहासान्महाभारतादान् विद्याश्च वारुणाद्याः । शक्तितोऽन्वहमधीते स माँसक्षीरैदनमधुसपिीर्भिर्देवान् पेितूंश्च मधुसर्पिभ्य तर्पयति ॥ ४४ ॥ ४५ ॥ ४६ ॥ ते पुनस्तृप्ताः सन्तो देवाः पितरश्च एनं स्वाध्यायकारिणं सर्वकामफलैः शुभैरनन्योपघातलक्षणैस्तर्पयन्ति । गाथा

यं यं क्रतुमधीते च तस्य तस्यामुयात्फलम् ।। ४७ ।।
त्रिर्वित्तपूर्णप्पृथिवीदानस्य फलमश्रुते ।
तैपसश्च परस्येह नेित्यस्वाध्यायवान्द्विजः ॥ ४८ ।।

यस्य यस्य क्रतोः प्रतिपादकं वेदेकदेशमन्वहमधीते तस्य तस्य क्रतोः फलम वाश्मोति । तथा वित्तपूर्णायाः पृथिव्याः त्रिः त्रिवारं दानस्य यत्फलं परस्य तपसश्चान्द्रायणादेर्यस्फलं तदपि नित्यस्वाध्यायवानाश्नोति । नित्यग्रहणं काम्यस्यापि सतो नित्यत्वज्ञापनार्थम् ॥ ४७ ॥ ४८ ॥ एवं सामान्येन ब्रह्मचारिधर्मानभिधायाधुना नैष्ठिकस्य विशेषमाह-

नैष्ठिको ब्रह्मचारी तु वसेदाचार्यसंनिधौ ।
तदभावेऽस्य तनये पल्यां वैश्वानरेऽपि वा ॥ ४९ ।।
अनेन विधिना देहं साधयन्विजितेन्द्रियः ।
ब्रह्मलोकमवामीति न चेह जायते पुनः ।। ५० ।।

उँतेन प्रकारेणात्मानं निष्ठा उत्क्रान्तिकालं नयतीति नैष्ठिकः स यावज्जीवमाः चार्यसमीपे वसेत् । न वेर्दग्रहणोत्तरकालं स्वतन्नो भवेत् । तदभावे तस्पुत्रसमीपे तदभावे तद्भार्यासमीपे तदभावे वैश्वानरेऽपि । अनेनोक्तविधिना देहं साधयन्


१ यथा-पृच्छामि त्वा परमन्तं पृथिव्याः इति प्रश्नः, इयं वेदिः परो अन्तः इत्युत्तरम्. एवमन्यदपि वाकोवाक्यं ज्ञेयम्. २ मधीतेऽसौ ख. ३ तपसो यत्परस्य ख. ४ अनेनोक्त प्रकारेण ख. ५ ग्रहणकालोत्तरं ख. ६ खोपास्यान्निसंनिधौ ख .