प्रायश्चित्तप्रकरणम् ५ ] . मिताक्षरासहिता । प्रायश्चित्तमपि भवतीत्यर्थः । ब्रह्मचारिणस्तु प्रायश्चित्तद्वैगुण्यं षोडशवर्षादूध्र्व मेव । अर्वाचुक्त पुनः ‘बालो वाप्यूनषोडशः । प्रायश्चित्तार्धमर्हन्ति’ इति षोडश वर्षादर्वाचीनस्यार्धप्रायश्चित्ताभिधानात् । नच द्वादशवार्षिके चतुर्गुणे क्रियमाणे मध्ये विपत्तिशङ्कया समाप्यनुपपत्तेः प्रवृत्तिरेव नोपपद्यत इति शङ्कनीयम् । यत प्रक्रान्तप्रायश्चित्तस्य मध्ये विपत्तावपि पापक्षयो भवत्येव । यथाह हारीत प्रायश्चित्ते व्यवसिते कर्ता यदि विपद्यते । पूतस्तदहरेवासाविह लोके परत्र च ॥’ इति । व्यासोऽप्याह–“धर्मार्थ यतमानस्तु न चेच्छन्नोति मानव । प्राप्ती भवति तत्पुण्यमत्र वै नास्ति संशयः ॥’ इति ॥ २५० ॥ अधुना निमित्तान्तरेषु ब्रह्महत्याप्रायश्चित्तस्यातिदेशमाह यागस्थक्षत्रविड्घाती चरेब्रह्महणि व्रतम् । गर्भहा च यथावर्ण तथात्रेयीनिघूदकः ।। २५१ ।। ३९६५ - दीक्षणीयाद्युदवसानीयापर्यन्ते सोमयागप्रयोगे वर्तमानौ क्षत्रियवैश्यौ यो व्यापादयति असौ ब्रह्महणि पुरुषे यद्रह्महत्याघ्रतमुपदिष्टं द्वादशवार्षिकादि तञ्च रेत् । यद्यपि यागशब्दः सामान्यवचनस्तथाप्यत्र सोमयागमभिधते ॥ *सवन गतौ च राजन्यवैश्यौ' इति वसिष्ठन सवनत्रयसंपाद्यस्य सोमयागस्यैव निर्दिष्टत्वात् । अत्र च गुरुलघुभूतानां द्वादशवार्षिकादिब्रह्महत्यात्रतानां जाति शक्तिगुणाद्यपेक्षया प्रागुक्तवव्यवस्था वेदितव्या । एवं गर्भवधादिष्वपि । मरणा न्तिकं तु नातिदिश्यते । ब्रतग्रहणात् । अतः कामतो यागास्थक्षत्रियादेवधे व्रत सैयैव द्वैगुण्यम् । एतच्च ऋतं संपूर्णमेव कर्तव्यम् । पूर्वयोर्वर्णयोर्वेदाध्यायिनं हत्वेति प्रक्रम्यापस्तम्बेन द्वादशवार्षिकाभिधानात् । गर्भ च वेिन्नासु संभूर्त हत्वा यथावर्ण यद्वर्णपुरुषवधे यत्प्रायश्चित्तमुत्तं तद्वर्णगर्भवधे तच्चरेत् । एतच्चानु जातस्त्रीपुंनपुंसकव्यञ्जनगर्भविषयम् । ( ११॥८७ )–“हत्वा गर्भमविज्ञातम् इति मानवे विशेषड्दर्शनात् । अत्र च यद्यपि ब्राह्मणगर्भस्य ब्राह्मणत्वादेव तद्वधनिमित्तत्रतप्राप्तिस्तथापि स्रीत्वस्यापि संभवात्स्त्रीशून्दविट्क्षत्रवध इत्युपपात कत्वेन तत्प्रायश्चित्तप्रसिपि स्यादतः स्त्रीपुंनपुंसकत्वेनाविज्ञातेऽपि ब्राह्मणगर्भत्व मात्रप्रयुक्त ब्रह्महत्याव्रतं कुर्यादित्यर्थवदतिदेशवचनम् । उपजाते स्त्रीपुंसादिविशेष व्यञ्जने यथायथमेव प्रायश्चित्तम् । यश्चात्रेया निघूदको व्यापादकः सोऽपि तथा व्रतं चरेत् । हन्यमानात्रेयीवर्णानुरूपं व्रतं चरेदित्यर्थः । आत्रेयीशब्देनर्तुमत्यु च्यते ।–‘रजस्वलामृतुरुवातामात्रेयीमाहुर्यत्र ह्येतदपत्यं भवति' इति वसिष्ठ स्मरणात् । अत्रिगोत्रजा च ।–‘अत्रिगोत्रां वा नारीम्’ इति विष्णुस्मरणात् । एतदुक्तं भवति । ब्राह्मणगर्भवधे ब्राह्मण्यात्रेयीवधे चव ब्रह्महत्यावतम् । क्षत्रियगर्भवधे क्षत्रियात्रेयीवधे च क्षत्रहत्याव्रतमेवमन्यत्रापीति । चशब्दात्साक्ष्ये अनृतवचनादिष्वपि । तथाह मनुः (११॥८८ )–‘उक्त्वा चैवानृतं साक्ष्यें अतिरुध्य गुरुं तथा । अपहृत्य च निक्षेपं कृत्वा च खीसुहृद्वधम् ।' इति । यत्र
पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४२१
एतत् पृष्ठम् अपरिष्कृतम् अस्ति