पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४२५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रायश्चित्तप्रकरणम् ५] ' मिताक्षरासहिता । ३९९ श्रय इति स्थितिः’ इति । अतः ‘पादो बालेषु दातव्यः सर्वपापेष्वयं विधि इति । ‘सर्वपापेषु सुरापानादिष्वपि’ इति वचनात्पाद एव सुरापाने प्रायश्चित्तम् । तथा जातूकण्र्येन मद्यपानेऽपि प्रायश्चित्तमुक्तम्—‘अनुपेतस्तु यो बालो मद्य मोहात्पिबेद्यदि । तस्य कृच्छ्त्रयं कुर्यान्माता भ्राता तथा पिता ॥’ इति । अतो गौतमवचनं सुरादिव्यतिरिक्तशुक्तपर्युषितादिविषयम् । कुमारवचनं तु स्वल्प दोषख्यापनपरम्। अतएव प्रागुपनयनात्कृतदोषस्योपनयनमेव प्रायश्चित्तमित्युक्तं मनुना (२॥२७ )–‘गाभेहोमैजतकर्मचूडामौञ्जीनिबन्धनैः । बैजिकै गार्भिकं चैनो द्विजानामपमृज्यते ॥’ इति । अयमत्रार्थ । त्रैवर्णिकानामुत्पत्तिप्रभृति पेष्टीप्रतिषेधः । ब्राह्मणस्य तु मद्यमात्रनिषेधोऽप्युत्पत्तिप्रभृत्यव । राजन्य वैश्ययोस्तु न कदाचिदपि गौड्यादिमद्यप्रतिषेध । शूद्रस्य न सुराप्रतिषेधो नापि मद्यप्रतिषेधः ॥ २५३ प्रायश्चित्तान्तरमाह वालवासा जटी वापि ब्रह्महत्याव्रतं चरेत् । पिण्याकं वा कणान्वापि भक्षयेत्रिसमा निशि ।। २५४ ।। । गोछागादिलोमनिर्मितवस्त्रप्रावृतो वालवासाः । वालवासोग्रहणं चीरवल्क लयोरुपलक्षणार्थम् ॥–“सुरापगुरुतल्पगौ चीरवल्कलवाससौ ब्रह्महत्यात्र चरेयाताम्’ इति प्रचेतःस्मरणात् । जटेिग्रहणं मुण्डित्वनिराकरणार्थम् । ब्रह्महत्याव्रतं चरेदित्यनेनैव सिद्धे यद्धालवसनादिग्रहणं तदन्यत्र संर्भवेि स्वयं मारितशिरःकपालादिनिवृत्त्यर्थम् । इदमकामतो जलबुद्धया यः सुरां पिबति तद्विषयम् । (मनुः ११॥८९)-‘इयं विशुद्धिरुदिता प्रमाप्याऽकामतो द्विजम्’ इत्यकामित्वोपाधित्वेन विहितस्यैव द्वादशवार्षिकस्यातिदेशात् । अत्र च सुरा पानस्य महापातकत्वात्सल्यप्यातिदेशिकत्वे संपूर्णमेव द्वादशवार्षिककं कुर्यान्न पादो नम् । अतएव वृद्धहारीतः-'द्वादशभिर्वर्षेर्महापातकिनः पूयन्ते’ इति । अथवा पिण्याकं पिण्डी तं त्रिसमाः वर्षत्रयपर्यन्तं रात्रौ भक्षयेत् । कण्णास्तन्दुलै लवास्तान्वा पूर्ववद्भक्षयेत् । एतच सकृदेव कार्यम् । ( ११॥९२ )–‘कणान्वा भक्षयेदब्दं पिण्याकं वा सकृन्निशि' इति मनुस्मरणात् । अस्य च पिण्याकादि भक्षणस्य भोजनकायें विहितत्वादशनान्तरपरित्यागः । एतच्चोदकबुद्धया सुरापाने छर्दनोत्तरकाले वेदितव्यम् ।–“एतदेव वतं कुर्यान्मद्यपश्छर्दने कृते । पञ्चगव्यं च तस्योत्तं प्रत्यहं कायशोधनम् ॥’ इति व्यासवचनात् । नच सुरासंस्टेषदु पलभ्यमानतद्वन्धरसोदकपानविषयमिदमिति सुन्दरम् । संसर्गेऽपि सुराल्वस्या नपायात् । यथाज्यत्वस्य पृषदाज्ये । अतएव ‘आज्यपा इति निगमाः कार्याः न पृषदाज्यपाः' इत्येवमुक्त न्यायविद्भि । यत्पुनरापस्तम्बवचनम्–‘स्तेयं कृत्वा सुरां पीत्वा गुरुदारान्गत्वा ब्रह्महत्यां च कृत्वा चतुर्थ कालं मितभोजनो योऽ १ संभवे श्रूयमाणस्वसंबन्धि स्वयं ख. २ पिण्याकपिण्डान् ड. ३ तंदुलाणवास्तान्वा ड