पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४२६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४ ० ० याज्ञवल्क्यस्मृतिः । [ प्रायश्चित्ताध्यायः भ्युपेयात्सवनानुकल्पं स्थानासनाभ्यां विहरैस्त्रिभिर्वेषैः पापं व्यपनुदति’ इति । यत्वङ्गिरोवचनम् -'महापातकसंयुक्ता वर्षेः शुद्धयन्ति ते त्रिभिः’ इति, तदु भयमपि पिण्याकं वा कणान्वेत्यनेनैकविषयम् । यदपि यमेन प्रायश्चित्तद्वय मुक्तम्—‘बृहस्पतिसवेनेष्टा सुरापो ब्राह्मणः पुनः । समत्वं ब्राह्मणैर्गच्छेदित्षा वैदिकी श्रुति ॥ भूमिप्रदानं यः कुर्यात्सुरां पीत्वा द्विजोत्तमः । पुनर्न च पिबेत्तां तु संस्कृतः स विशुद्धयति ॥” इति, तदुभयमपि पूर्वेण सहैकविषयम्। यद्वा अतिरिक्तदक्षिणाकल्पाश्रयणाद्वादशवार्षिकेण सह विकल्प्यते । अत्रापि बालवृद्धादीनां सार्धकवर्षीयमनुपवीतानां तु नवमासिकमित्येवं कल्पना कार्या । यत्तु मनुवचनम् (११।९२) –‘कणान्वा भक्षयेदब्दं पिण्याकं वा सकृन्निशि सुरापानापनुत्यर्थ वालवासा जटी ध्वजी ॥’ इति तत्तालुमात्रसंयोगे सुराया अबुद्धिपूर्वे द्रष्टव्यम् । ननु च द्रवद्रव्यस्याभ्यवहरणे पानमित्युच्यते । अभ्यव हरणं च कण्ठादधोनयनं न ताल्वादिसंयोगमात्रं, अतः कथं तत्र पाननिमित्तं प्रायश्चित्तम् । उच्यते । येन ताल्वादिसंयोगेन विना पानक्रिया न निर्वर्तते सोऽपि पानक्रियाप्रतिषेधेन प्रतिषिद्धः । अतो यद्यपि मुख्यपानाभावान्न महा पातकत्वं तथापि तत्प्रतिषेधेन तदङ्गभूताळ्यभिचारिताल्वादिसंयोगस्यापि प्रति षिद्धत्वेन दोषस्य विद्यमानत्वाद्रवत्येव प्रायश्चित्तम् । –“चरेड्रतमहत्वापि घातार्थ चेत्समागतः' इति यथा हननप्रतिषेधेन तदङ्गभूताध्यवसयादेरपि प्रति षिद्धत्वात्प्रायश्चित्तविधानम् । यत्तु बौधायनीयम्-*त्रैमासिकममत्या सुरापाने कृच्छाब्दपादं चरित्वा पुनरुपनयनम्’ इति । यञ्च याम्यम्--'सुरां पीत्वा द्विजं हत्वा रुक्मं हृत्वा द्विजन्मनः । संयोगं पतितैर्गत्वा द्विजश्चान्द्रायणं चरेतू ॥’ इति । यदपि बार्हस्पत्यम्–‘गौडीं माध्वीं सुरां पैष्टीं पीत्वा विप्रः समाचरेत्। इति, तत्रितयमप्यनन्योषधसा ध्यव्याध्युपशमार्थे पाने वेदितव्यम् । प्रायश्चित्तस्याल्पत्वात् । यदा तु सुरासंसृष्टं शुष्करसमेचातं भक्षयति तदा पुनरुपनयनम् । यथाह मनुः (११।१५०) अज्ञानात्प्राश्य विण्मूत्रं सुरासंसृष्टमेव च । पुनः संस्कारमर्हन्ति त्रयो वर्णा द्विजातयः ॥” इति । यदाच शुष्कसुराभाण्डस्थोदकं पिबति तदा शाता तपोक्तं कुर्यात्–‘सुराभाण्डोदकपाने छर्दनं घृतप्राशनमहोरात्रोपवासश्च' इति ॥ यत्तु बौधायनीयम्–‘सुरापानस्य यो भाण्डेष्वपः पर्युषिताः पिबेत् । शङ्क पुष्पीविपर्क तु क्षीरं सर्पिः पिबेञ्यहम् ॥’ इति तत्पर्युषितत्वादधिकम् । अकाम तोऽभ्यासे पुनर्मनुनोक्तम् ( ११।१४७)—‘अपः सुराभाजनस्था मद्यभाण्ड स्थितास्तथा । पञ्चरात्रं पिबेत्पीत्वा शङ्खपुष्पीशतं पयः ॥’ इति । यत्तु विष्णू क्तम्–“अपः सुराभाजनस्थाः पीत्वा सप्तरात्रं शङ्खपुष्पीशतं पयः पिबेत्’ इति तन्मतिपूर्वकपाने । ज्ञानतोऽभ्यासे तु बृहद्यम आह-सुराभाण्डस्थितं तोयं यदि कश्चित्पिबेद्विजः । स द्वादशाहं क्षीरेण पिबेब्राह्मीं सुवर्चलाम् ॥' इति ॥ सुरापस्य मुखगन्धाम्राणे तु मानवम् ( ११॥१४९)-‘ब्राह्मणस्तु सुरापस्य गन्धमाघ्राय सोमपः । प्राणानप्सु त्रिरायम्य घृतं प्राश्य विशुद्धयति ॥' इति ,