पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४२७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रायश्चित्तप्रकरणम् ५ ] मिताक्षरासहिता । तत्सोमयाजिन एवामतिपूर्वे । मतिपूर्वे तु द्विगुणम् । अर्पीतसोमस्य तु कल्प्यम् । साक्षात्सुरागन्धाम्राणस्य तु ‘घ्रातिरत्रेयमद्ययोः' इति जातिभ्रंशकरत्वात् (११॥ १२४)–‘जातिभ्रंशकरं कर्म कृत्वान्यतममिच्छया । चरेत्सान्तपनं कृच्छ् प्राजापत्यमनिच्छया ॥' इति मनूतं द्रष्टव्यम् ॥ २५४ ॥ एवं मुख्यसुरापाने प्रायश्चित्तमुक्त्वा मद्यपाने प्रायश्चित्तमाह अज्ञानातु सुरां पीत्वा रेतोविण्मूत्रमेव च । पुनःसंस्कारमर्हन्ति त्रयो वर्णा द्विजातयः ।। २५५ ।। यः पुनरज्ञानादुदकबुद्धया सुरां मद्य ब्राह्मणः पिबति ये च ब्राह्मणादयो रेतो प्राश्नन्ति ते त्रयोऽपि द्विजातयो वर्णास्तप्तकृच्छ्पू र्वकं पुनरुपनयनं प्रायश्चित्तमर्हन्ति । अत्र मद्यपाने योऽयं पुनःसंस्कारः स ब्राह्मणस्यैव । क्षत्रिय वेिशोस्तदभ्यनुज्ञानस्य दर्शितत्वात् । सुराशब्दश्चात्र मद्यपरः । प्रायश्चित्तस्याति लघुत्वात् । अज्ञानतो मुख्यसुरापाने द्वादशवार्षिकस्य विहितत्वाच्च । अतएव गौतमेनात्र मद्यशब्दः प्रयुक्तः । अमत्या मद्यपाने पयो घृतमुदकं वा व्यहं तसानि पिबेत्स तसकृच्छूस्ततोऽस्य संस्कारो मूत्रपरीषकुणपरेतसां प्राशने चेति । यदप्यस्मिन्नेव विषये मनुनोक्तम् ( ११।१४ ६ )–“अज्ञानाद्वारुणीं पीत्वा संस्कारेण विशुद्धयति’ इति, तदपि तप्तकृच्छ्पू र्वकमेव गौतमवाक्यानुरोधात् । पुनःसंस्कारश्च पुनरुपनयनम् । तञ्चाश्वलायनाद्युक्तक्रमेण कर्तव्यम् । यथो क्तम्—‘अथोपेतपूर्वस्य कृताकृतं केशवपनं मेधाजनर्न चानेिरुतं परिदानं कालश्च तत्सवितुर्वेणीमह इति सावित्रीम्’ इति । मतिपूर्वमद्यपाने वसिष्ठोतैः द्रष्टव्यम्—‘मत्या मद्यपाने त्वसुरायाः सुरायाश्चाज्ञाने कृच्छ्ातिकृच्छूौ घृत प्राशनं पुन:संस्कारश्च' इति । चान्द्रायणं वा शङ्गोक्तम्—‘असुरामद्यपायी चान्द्रायणं चरेत्’ इति । मुखमात्रप्रवेशे तु मद्यस्यापस्तम्बीयं षड्रात्रम्-- “अभक्ष्याणामपेयानामलेह्यानां च भक्षणे । रेतोमूत्रपुरीषाणां प्रायश्चित्तं कथं भवेत् । पद्मोदुम्बरबिल्वानां पलाशस्य कुशस्य च । एतेषामुदकं पीत्वा षडूत्रेण विशुद्धयति ॥’ इति । एतच्च तालादिमद्यविषयम् । गौडीमाध्च्योः पुनरज्ञानत पाने 'असुरायाः सुरायाश्चाज्ञानतः’ इति वसिष्ठोक्तः कृच्छूातिकृच्छ्सहित पुनःसंस्कारो घृतप्राशश्च द्रष्टव्यः । तयोर्मतिपूर्वपाने तु ‘पिण्याकं वा कणान्वा' इति त्रैवार्षिकम् । कामतस्तु तत्पानाभ्यासे “अभ्यासे तु सुराया अधिवर्णा सुरां पिबेन्मरणात्पूतो भवति’ इति वासिष्ठं मरणान्तिकं द्रष्टव्यम् । नात्र सुराशब्द पष्टयभिप्रायः । तस्याः सकृत्पानेऽपि मरणान्तिकस्य दर्शितत्वात् ॥ मद्यवासित शुष्कभाण्डस्थोदकस्याज्ञानतः पाने बृहद्यमोक्तम्-‘मद्यभाण्डस्थितं तोयं यदि कश्चित्पिबेद्विजः । कुशमूलविपकेन त्र्यहं क्षीरेण वर्तयेत् ॥’ इति । अज्ञानतो ऽभ्यासे तु वसिष्ठेनोक्तम्-‘मद्यभाण्डस्थितं तोयं यदि कश्चित्पिबेद्विजः । पद्मोदुम्बरबिख्वानां पलाशस्य कुशस्य च ॥ एतेषामुदकं पीत्वा त्रिरात्रेण विशुद्धयति ॥' इति । ज्ञानतः पाने तु विष्णूक्तम्--'मद्यभाण्डस्थितं तोयं