पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४२८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

याज्ञवल्क्यस्मृतिः । [ प्रायश्चित्ताध्याय पीत्वा पञ्चरात्रं शङ्खपुष्पीशतं पय पिबेत्’ इति ॥ ज्ञानतोऽभ्यासे तु शनी क्तम्—‘मद्यभाण्डस्थितं तोयं पीत्वा सप्तरात्रं गोमूत्रयावकं पिबेत्’ इति । अत्यन्ताभासे तु हारीतोक्तम्--'मद्यभाण्डस्थितं तोयं यदि कश्चित्पिबेद्विजः । द्वादशाहं तु पयसा पिबेब्राह्मीं सुवचेलाम् ।' इति । एषु च वाक्येषु द्विजग्रहणं ब्राह्मणाभिप्रायम् । क्षत्रियवैश्ययोरप्रतिषेधादिति दर्शितं प्राक् ॥ इदं च गोडी माध्वीभाण्डस्थजलपानविषयं गुरुत्वात्प्रायश्चित्तस्य । तालादिमद्यभाण्डोदकपाने तु कल्प्यम् ॥ २५ ॥ द्विजातिभार्या प्रत्याह पतिलोकं न सा याति ब्राह्मणी या सुरां पिबेत् । इहैव सा शुनी गृधी सूकरी चोपजायते ।। २५६ ।। या द्विजातिभार्या सुरां पिबति सा कृतपुण्यापि सती पतिलोकं न याति किंत्विहैव लोके श्वगृश्धसूकरलक्षितां तिर्यग्योनिं क्रमेण प्राप्तोति ॥ ब्राह्मणीग्रहणं चात्र ‘तिस्रो वर्णानुपूव्र्येण’ इति न्यायेन यस्य द्विजातेयवत्यो भार्यास्तासामुप लक्षणम् । अतएव मनुः–‘पतत्यर्ध शरीरस्य यस्य भार्या सुरां पिबेत् । पतितार्ध शरीरस्य निष्कृतिर्न विधीयते ॥’ इत । धर्मार्थकामेषु सहाधिकाराद्दम्पत्योरेकश रीरत्वमेव, अतो यस्य द्विजातेभौय सुरां पिबनि तस्य भार्यारूपमर्ध शरीरै पतति । पतितस्य च भार्यारूपस्यार्धशरीरस्य निष्कृतिर्न विधीयते । तस्माद्विजातिभार्यया ब्राह्मण्याद्यया न सुरा पेया । ‘तस्माद्राह्मणराजन्यो वेश्यश्च न सुरां पिबेत्’ इति निषेधविधौ लिङ्गस्याविवक्षितत्वेन वर्णत्रयभार्याणामपि प्रतिषेधे सिद्धे पुनर्वचनं द्विजातिभाययाः शूद्राया अपि सुराप्रतिषेधप्राप्यर्थम् । अतो द्विजातिभार्याभि सुरापाने प्रायश्चित्तस्यार्ध कार्यम् । शूद्रभार्यायास्तु शूद्रायाः शूद्रवदेव न प्रतिषेधः। सुरापानसमेषु तु निषिद्धभक्षणादिषु सुरापानप्रायश्चित्तार्धमित्युक्तं प्राक् ॥ २५६ ॥ इति सुरापानप्रायश्चित्तप्रकरणम् क्रमप्रासं सुवर्णस्तेयप्रायश्चित्तमाह ब्राह्मणस्वर्णहारी तु राज्ञे मुसलमर्पयेत् । खकर्म ख्यापयंस्तेन हतो मुक्तोऽपि वा शुचिः ।। २५७ ।। ब्राह्मणस्वामिकं सुवर्ण योऽपहरत्यसौ सुवर्णस्तेयं मया कृतमित्येवं स्वकर्म ख्यापयन् राज्ञे मुसलं समर्पयेत् । मुसलसमर्पणस्य दृष्टार्थत्वातेन मुसलेन राजा तं हन्यात् । तेन राज्ञा हतो मुक्तो वा शुद्धो भवति । अपहरणशब्देन च समक्ष परोक्षं वा बलाचौर्येण वा क्रयादिस्वत्वहेतुं विना अहणमुच्यते । मुसलं समर्पये दिति यद्यपि सामान्येनोक्तं तथापि तस्य हननार्थत्वात् तत्समर्थस्यायोमयादे हणम् । अतएव मनुनोक्तम् (८॥३१५)–‘स्कन्धेनादाय मुसलं लकुटं वापि.खादिरम् । असिं चोभयतस्तीक्ष्णमायसं दण्डमेव वा ॥' इति ॥ शङ्गेना १ शक्ति चोभयतस्तीक्ष्णामिति पाठः