पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४२९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रायश्चित्तप्रकरणम् ५ ] मिताक्षरासहिता ४०३ प्यत्र विशेष उक्तः-'सुवर्णस्तेनः प्रकीर्णकेश आईवासा आयसं मुसलमादाय राजानमुपतिष्ठेदिदं मया पापं कृतमनेन मुसलेन मां घातयस्वेति स राज्ञा शिष्ट सन्पूतो भवति' इति । हननं चावृत्तिविधानाभावात्सकृदेव कार्यम्। अतएव मनु नोक्तम् (११।१००)-ततो मुसलमादाय सकृद्धन्यात्तु तं स्वयम्’ इति । एवं सकृत्ताडनेन राज्ञा हतो मृतः शुद्धयेत्, मुक्तो वा मरणाज्जीवन्नपि विशुद्धये दिति यावत् । तथाच संवर्तेनोक्तम्—‘ततो मुसलमादाय सकृद्धन्यातु तं स्वयम् । यदि जीवति स स्तेनस्ततः स्तेयाद्विशुद्धयति ॥' इति ॥ यथोक्तं ब्राह्मणः वधे–‘मृतकल्पः प्रहारात जीवन्नपि विशुद्धयति’ इति । नन्वताडित एव राज्ञा मुक्तः खेतेनः शुद्धयेदित्ययमर्थः कस्मान्नेष्यते । उच्यते । अनन्नन्नेनस्वी राजेति गौतमीये ताडनमकुर्वतो राज्ञो दोषाभिधानात् । भवतु राज्ञो दोषस्तथाप्यति क्रान्तनिषेधेन राज्ञा खेहादिना मुक्तः स्तेनः कथं न शुद्धयेदिति चेत् । उच्यते । एवंच सति अकारणिका शुद्धिरापतेत् । अथोच्यते । मोक्षोत्तरकालं द्वादश वार्षिकाद्यनुष्ठानेन शुद्धयङ्गीकरणान्नाकारणिकेति । तदप्यसुन्दरम् । मुक्तः शुचेि रिति मोक्षस्यैव शुद्धिहेतुत्वाभिधानात् । अतः प्राच्येव व्याख्या ज्यायसी । मुक्तो वा मरणाज्जीवन्नपि विशुद्धयेदिति यावत् । इदं च मरणान्तिकं सार्ववर्णिकस्याप हंर्तुर्न तु ब्राह्मणस्यैव । ब्राह्मणस्वर्णहारीति नैमित्तिकवाक्ये विशेषानुपादानातू क्षत्रियादीनां च महापातकित्वाविशेषात्प्रायश्चित्तान्तरस्यानान्नानाञ्च । यत्पुन मनवे (११।९९)-‘सुवर्णस्तेयकृद्विप्रः' इति विप्रग्रहणं तन्नरमात्रोपलक्षणम् । प्रायश्चित्तीयते नर' इति तसैयैव प्रकृतत्वात् । (मनुः ११॥५४ )-‘ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गन्नागमः’ इति निमित्तवाक्ये विशेषानुपादानाच । तत्सापेक्ष नैमित्तिकवाक्ये ‘सुवर्णस्तेयकृद्विप्रः’ इत्यत्र श्रूयमाणमप्युपलक्षणमेव युक्तम् । यथाभ्युदितेष्टयां यस्य हविरिति वाक्ये तन्दुलग्रहणं हविर्मात्रस्य ॥ इदंच राज्ञा हननं ब्राह्मणव्यतिरिक्तस्य । (८॥३८० )–“न जातु ब्राह्मण हन्यात्सवपापं ष्वपि स्थितम्’ इति मानवे ब्राह्मणवधस्य निषिद्धत्वात् । यदि कथंचिदतिक्रान्तः निषेधे राज्ञा हन्यते तथापि शुद्धो भवति । (मनुः ११।१००)-“वधेन शुद्धयति स्तेनो ब्राह्मप्पस्तपसैव वा’ इति ब्राह्मणस्यापि वधेन शुद्धयभिधानात् । नच तपसेंसैव वेत्येवकारेण वधनिषेध । तस्य केवलतपसापि शुद्धयभिधानपर त्वात् । यदि वधो निषिद्धस्तर्हि तपसैव वेति विकल्पाभिधानमनुपपन्नम् । नच दण्डाभिप्रायं विकल्पाभिधानम् । तस्यानिर्दिष्टत्वात् । किंच ‘एकार्थास्तु विकल्पेरन्’ इति न्यायेनैकार्थानामेव विकल्पो वीहियवयोरिव । नच दण्ड तपसोरेकार्थत्वम् । दण्डस्य दमनार्थत्वात्तपसश्च पापक्षयहेतुत्वात् । नच वधेन शुद्धयति स्तेन इति सामान्याविषयेण वधेन ब्राह्मणस्तपसैव वेति विशिष्टविषयस्य तपसो विकल्पोपपत्तिः । नहि भवति ब्राह्मणेभ्यो दधि दीयतां तत्रं कैौण्डि न्याय वेति वेकल्पस्तस्माद्वयोरपि सामान्यविषयत्वमेव । यद्वा क्षत्रियस्यापि न निषेधः । मनुना ‘सुवर्णस्तेयकृद्विप्र’ इत्यभिधाय (११।१००)-“गृहीत्वा मुसलं १ मनुस्मृतौ तु-‘गृहीत्वा मुसलं राजा सकृद्धन्यातु तं स्वयम् । वधेन शुद्धयति स्तेनो तु ।' इति पाठान्तरम् या० ३