पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४३०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४० ४ याज्ञवल्क्यस्मृतः । [प्रायश्चित्ताध्यायः राजा सकृद्धन्यातु तं स्वयम् ॥' इति सर्वनाम्रा प्रकृतब्राह्मणपरामर्शनैव हनन विधानात् । न जातु ब्राह्मणं हन्यादित्यस्य प्रायश्चित्तव्यतिरिक्तदण्डरूपहननविषय त्वेनाप्युपपत्तेः । एतच मरणान्तिकं मतिपूर्वसुवर्णस्तेयविषयम् । ‘मरणान्तिकं हि यत्प्रोक्तं प्रायश्चित्तं मनीषिभिः । तत्तु कामकृते पापे विज्ञेयं नात्र संशयः ॥ इति मध्यमाङ्गिरःस्मरणात् । अत्र च सुवर्णशब्दः परिमाणचेिशिष्टहेमद्रव्यवचनो न जातिमात्रवचनः ॥ ‘जालसूर्यमरीचिस्थं त्रसरेणू रजः स्मृतम् । तेऽष्टौ लेिक्षा तु तास्तिस्रो राजसर्षप उच्यते । गौरस्तु ते त्रयः षङ्गिर्यवो माषस्तु ते त्रयः । कृष्णलः पञ्च ते माषस्ते सुवर्णस्तु षोडश ।।' इति षोडशमाषपरिमिते हेमनि सुवर्णशब्दस्य परिभाषितत्वात् । अतो ब्राह्मणसुवर्णापहरणं महापातकमित्यादि प्रयोगेषु कृतपरिमाणस्यैव सुवर्णस्य ग्रहणं युक्तम् । परिमाणकरणस्य दृष्टार्थ त्वात् । नह्यदृष्टार्थपरिमाणस्मरणम् । नापि लोकव्यवहारार्थम् । अतत्परत्वात्स्मृति कारप्रवृत्त । अतएवोक्तं न्यायविद्भिः ‘कार्यकाले संज्ञापरिभाषयोरुप स्थानम् इति तथा नामानि गुणफलोपबन्धेनार्थवदित्युक्तं पञ्चदशान्याज्या नीत्यत्र । नच दण्डमात्रोपयोगिपरिमाणस्मरणमित्युक्तमिति युक्तम् । तावन्मात्रा र्थत्वे प्रमाणाभावात् । अतोऽविशेषात्सर्वशेषत्वमेव युक्तम् । किंचव । दण्डस्य द्मंनार्थत्वाद्दमनस्य च परिमाणविशेषमन्तरेणापि सिद्धेनतीव परिमाणस्मरण मुपयुज्यते । शब्दैकसमधिगम्ये तु महापातकित्वादावेकान्ततः स्मरणमुप युज्यते । अतः षोडशमाषात्मकसुवर्णपरिमितहेमहरण एव महापातकित्वं तन्नि मित्तं मरणान्तिकादिप्रायश्चित्तविधानं च । द्वित्रादिमाषात्मकहेमहरणं तु क्षत्रि यादिहेमहरणवदुपपातकमेवेति युक्तम् । किंच । सुवर्णान्यूनपरिमाणहेमहरणे प्रायश्चित्तान्तरोपदेशात्तत्परिमाणस्यैव हेस्रो हरणे मरणान्तिकादिप्रायश्चित्तमिति युक्तम् । तथाचोक्तं षट्रत्रिंशन्मते-‘वालाग्रमात्रेऽपहृते प्राणायामं समाच रेत् । लिक्षामात्रेऽपि चव तथा प्राणायामत्रयं बुधः ॥ राजसर्षपमात्रे तु प्राणाया मचतुष्टयम् । गायत्र्यष्टसहस्र च जपेत्पापविशुद्धये ॥ गौरसर्षपमात्रे तु सावित्रीं वै दिनं जपेत् । यवमात्रे सुवर्णस्य प्रायश्चित्तं दिनद्वयम् ॥ सुवर्णकृष्णलं ह्येकमपहृत्य द्विजोत्तमः । कुर्यात्सान्तपनं कुर्यात्तत्पापस्यापनुत्तये ॥ अपह्महत्य सुवर्णस्य माषमात्रै द्विजोत्तमः । गोमूत्रयावकाहारस्त्रिभिर्मासैर्विशुद्धयति ॥ सुवर्ण स्यापहरणे वत्सरं यावकी भवेत् । ऊध्र्व प्राणान्तिकं ज्ञेयमथवा ब्रह्महत्रतम् ॥ इदं च वत्सरं यावकाशनं किंचिन्नयूनसुवर्णापहारविषयम् । सुवर्णापहारे मन्वादे महास्मृतिषु द्वादशवार्षिकविधानात् । ‘बलाद्ये कामकारेण गृह्णन्ति स्वं नराः धमाः । तेषां तु बलहर्तणां प्राणान्तिकमिहोच्यते ॥ ' सुवर्णपरिमाणादर्वागपीत्य भिप्रेतम् । इदं च तेयप्रायश्चित्तमपहृतधनं तत्स्वामिने दत्वैव कार्यम् । खेतये ब्रह्मस्वभूतस्य सुवर्णादेः कृते पुन । स्वामिनेऽपहृतं देयं हत्र त्वेकादशाधि कम् ॥' इति स्मरणात् .। तथा (मनुः ११॥१६४)-*चरेत्सान्तपनं कृच्छ् तैन्निर्यात्यात्मशुद्धये' इति मनुस्मरणाञ्च । दण्डप्रकरणेऽप्युक्तम्—‘शेषेष्वेका १ द्विजाधमः . २ ‘तन्निदर्दाप्यात्मशुद्धये' इति पाठ